SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं ॥ ५१ Jain Educati REREREREREREREREREREREREI अथ तया स्वभर्त्रे मालिकाय ज्ञापितं, हे स्वामिन्ननेन कुमारेण धनार्पणादस्माकमुपरि भूरिरुपकारः कृतोऽस्ति, अथास्मिन्नवसरे वयमपि तस्योपरि चेत्प्रत्युपकारं कुर्महे तदैव योग्यं कथ्यते । यतःदो पुरिसे धरउ धरा, अहवा दोहिं हि धारिआ पुहवी । उवयारे जस्स मणो, उबकरिअं जो न विसर || १२३|| अत्र बहवोऽपि धनवन्तः सन्ति, परमुदारा न सन्ति, अनेन कुमारेण तु स्वौदार्यगुणेनास्माकमुपरि बहुरुपकारः कृतोऽस्ति, तेन हे स्वामिंस्त्वं तत्रेमं दण्डं लात्वा गच्छ । एनं परोपकारिणं कुमारं च जीवापय । रात्रिसमयो जातोऽस्ति, तेन तत्र गत्वा वास्त्रयं त्वमनेन दण्डेन तस्य शरीरं शनैः शनैस्ताडय । यथा स सजीवो भृत्वा सुखी स्यात् । तथा चोक्तं पद्मपुराणेऽपि - परोपकारः कर्तव्यः, प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्याद्यज्ञशतैरपि ॥ १२४ ॥ परोपकरणं येषां, जागर्ति हृदये सन्ताम् । नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥१२५॥ तदा मालिकेनोक्तं हे प्रिये ! त्वया सत्यं कथितं परं त्वं मुग्धासि, स्त्रीणां बुद्धिः पाष्णिस्थिता भवति, चेदहं तत्र गत्वा तथा करोमि, राजा चैतच्चरमुखाज्जानाति, तदाहमपि तत्र तथैव द्वितीयो भवामि, तेन च राजविरुद्धमहं सर्वथा न करिष्ये । तत् श्रुत्वा मालिनी प्राह प्रशा For Personal & Private Use Ority REDERERERERERERERERERERER श्रीरूपसेन चरित्रं ।। ५१ ।। jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy