SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282824 तु परोपकारकरणावसरोऽस्ति, अस्य जीवितदानोपकारपुण्यं च महाफलाय भविष्यति, यत: तीर्थस्नानैर्न सा शुद्धि-बहुदानैर्न तत्फलम् । तपोभिरुग्रैस्तन्नाप्य-मुपकाराद्यदाप्यते ॥१२६।। तेन हे स्वामिंस्त्वं साहसं कृत्वा तत्र गच्छ । नूनं तव कार्यसिद्धिर्भविष्यति, एवं तया बहुभिः प्रकारैः कथितेऽपि तेनोक्तमहं तु सर्वथा तत्र नैव यास्यामि, यतो ममापि जीवनेच्छा वर्तते, एवं तन्निश्चयं ज्ञात्वा कृतज्ञा सा मालिन्युवाच हे स्वामिंस्त्वं तर्हि गृहे तिष्ठ । अहमेव तत्र यास्यामीत्युक्त्वा सा दण्डं गृहीत्वा तत्र गता । अथ शूलोपरिस्थ: स कुमारस्तया बोधितोऽपि न वदति स्म, तृषया शुष्कतालुकण्ठौष्टो मूर्छित इव तया स ज्ञात: ततस्तयैकवारं दण्डेन ताडितोऽसौ जृम्भां कृतवान्. पुनस्तयेतस्ततोऽवलोक्य द्वितीयवारं ताडितेन तेन नयने समुद्घाट्य तस्या: सन्मुखं विलोकितं, तदा हृष्टा मालिनी तं तृतीयवारं दण्डेन ताडयामास, तत्क्षणं स सावधानो भूत्वा मालिन्यै जोत्कारं कृतवान् । तयापि तस्याशीर्वादो दत्तः, कथितं च हे बान्धव ! तव कियदुःखं समुत्पन्नं ? कुमारः प्राह हे भगिनि ! मम तु निद्रागताभूत्, तेन मया किमपि दुःखं न ज्ञातमस्ति, त्वयायं ममोपरि महानुपकार: कृतोऽस्ति, ततस्तौ मालिनीकुमारौ कुशलेन स्वगृहं समागतौ । 282828282828282828282828 ॥ ५२ ॥ Jain Educatch For Personal & Private Use Only v.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy