SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन श्रीरुपसेन चरित्रं चरित्रं 0282828282828282828282828 अथ मालिनी कुमारं प्रति जगाद हे भ्रातरथ त्वया विषादो नैव कार्यः, यत: मानपातोऽपि तस्य स्या-द्यस्य भानोन्नति: क्षितौ । प्रणतिः पादयोरेव, निगडोऽपि पुनस्तयोः ॥१२७॥ अथ मालिकोऽपि तं जीवन्तमागतं दृष्ट्वा हृष्टः सन् चिन्तयामास, नूनं मत्स्त्रीकृत उद्यमोऽपि सफलो जातः, ततोऽसौ रुपसेनं प्रति जगाद, हे कुमार तवापि महद्भाग्यं यत्त्वं कष्टाच्छुटितः, कुमारः प्राह युष्मत्प्रसादात्, ये भवादृशाः संकटे जनोपर्युपकारं कुर्वन्ति तैरेव जनैरियं पृथ्व्यलंकृतास्ति उक्तं च विहलं जे अवलंबइ, आवइपडियंवि जो समुद्धरइ । सरणागयं च रक्खइ, तेहिं हि अलंकिया पुहवी ॥१२८॥ निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां, चन्द्रश्चाण्डालवेश्मसु ॥१२९॥ मालिकेनोक्तं भो कुमार सर्वोऽप्ययं तव धर्ममहिमा फलितोऽस्ति । एवं विविधवार्ता विधाय सुखसुप्तानां तेषां रात्रिर्व्यतिक्रान्ता, प्रात:कालश्च संजातः, तत: कुमारेण मालिनी प्रति प्रोक्तं हे भगिन्यद्य त्वं पुष्पप्राभृतं गृहीत्वा कुमार्या आवासे गच्छ । तत्र गत्वा च त्वया कुमार्या हर्षविषादपरीक्षा कर्तव्या । सा यदि ममोपरि हर्षं वहन्ती सती ममेदृशं दुःखं ज्ञात्वा दुःख्रिनी RSASRSASRSASASRSASASASAN For Personal & Private Use Only www. library.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy