Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
Jain Educat
EREREREREREREREREREREREK
जगौ, असावेव मन्त्रीश्वरो मम पूर्वभवभर्तास्ति, तेनानेनैव सार्धं मम पाणिग्रहणं कारय ? अन्यथाहं काष्ठभक्षणं करिष्ये, राजापि तत् श्रुत्वा भूरिसन्मानपूर्वकं तं मन्त्रीश्वरं स्वगृहे समानीय तया स्वपुत्र्या सह तस्य पाणिग्रहणं कारयामास । एवं जीवतो मन्त्रिणः सैव भार्या प्राप्ता । तथा त्वमपि मरणं मा चिन्तय ! यतः
विपद्यपि गता: सन्त:, पापकर्म न कुर्वते । हंसः कुर्कुटवत्कीटा - नत्ति किं क्षुधितोऽपि हि ॥ १३३ ॥ एवंविधानि मालिन्या वचनानि श्रुत्वा तया राजकन्ययोक्तं हे सखि प्राणनाथेन विनोत्तमस्त्रीणामवस्थानं न युक्तं, पतिरहिता हि स्त्रिय: स्थाने स्थाने पराभवं प्राप्नुवन्ति, उक्तं चविवाहे पुण्यकार्यादौ, मंगलं सधवाः स्त्रियः । विधवा गर्हिता लोके, प्राप्नुवन्ति पराभवम् ॥१३४॥ अथ मालिन्योक्तं हे सखि ! त्वं विषादं मा कुरु, तव भर्ता कुशलेन वर्तते, तत् श्रुत्वा सा प्राह हे सखि स मम पतिर्यदि जीवति तर्हि जगति कोऽपि न मृत्युं प्राप्नुयात् । ततो मालिन्या तद्विषयेऽके शपथाः कृताः, उक्तं च हे सखि त्वमद्य सन्ध्यावधि विलम्बस्व ! चेदद्य स प्राक्तनवेलायां तव पार्श्वे न समागच्छेत्तदा त्वया मरणं चिन्त्यं नूनं मदुक्तमन्यथा नैव भविष्यति । इत्युक्त्वा
For Personal & Private Use Only
EREREREREREREREREREREREI
श्रीरूपसेन
चरित्रं
॥ ५७
•
w.jainelibrary.org
Loading... Page Navigation 1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124