SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं Jain Educat EREREREREREREREREREREREK जगौ, असावेव मन्त्रीश्वरो मम पूर्वभवभर्तास्ति, तेनानेनैव सार्धं मम पाणिग्रहणं कारय ? अन्यथाहं काष्ठभक्षणं करिष्ये, राजापि तत् श्रुत्वा भूरिसन्मानपूर्वकं तं मन्त्रीश्वरं स्वगृहे समानीय तया स्वपुत्र्या सह तस्य पाणिग्रहणं कारयामास । एवं जीवतो मन्त्रिणः सैव भार्या प्राप्ता । तथा त्वमपि मरणं मा चिन्तय ! यतः विपद्यपि गता: सन्त:, पापकर्म न कुर्वते । हंसः कुर्कुटवत्कीटा - नत्ति किं क्षुधितोऽपि हि ॥ १३३ ॥ एवंविधानि मालिन्या वचनानि श्रुत्वा तया राजकन्ययोक्तं हे सखि प्राणनाथेन विनोत्तमस्त्रीणामवस्थानं न युक्तं, पतिरहिता हि स्त्रिय: स्थाने स्थाने पराभवं प्राप्नुवन्ति, उक्तं चविवाहे पुण्यकार्यादौ, मंगलं सधवाः स्त्रियः । विधवा गर्हिता लोके, प्राप्नुवन्ति पराभवम् ॥१३४॥ अथ मालिन्योक्तं हे सखि ! त्वं विषादं मा कुरु, तव भर्ता कुशलेन वर्तते, तत् श्रुत्वा सा प्राह हे सखि स मम पतिर्यदि जीवति तर्हि जगति कोऽपि न मृत्युं प्राप्नुयात् । ततो मालिन्या तद्विषयेऽके शपथाः कृताः, उक्तं च हे सखि त्वमद्य सन्ध्यावधि विलम्बस्व ! चेदद्य स प्राक्तनवेलायां तव पार्श्वे न समागच्छेत्तदा त्वया मरणं चिन्त्यं नूनं मदुक्तमन्यथा नैव भविष्यति । इत्युक्त्वा For Personal & Private Use Only EREREREREREREREREREREREI श्रीरूपसेन चरित्रं ॥ ५७ • w.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy