Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 69
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 828282828282828282828282 लेख: प्रेषितः, गंगया च स लेखो वाचित:, तन्मध्ये लिखितमासीद्यन्मन्त्रीश्वरो मृत इति, तद्वाचयन्त्यैव तया स्नेहवशात्स्वप्राणास्त्यक्ताः, अथ तेन सेवकेन पश्चादागत्य गंगायास्तत्स्वरूपं राजे निवेदितं, ततो राजा मन्त्रीश्वरस्योत्तारके गत्वा तस्या मरणं ज्ञापितं, तत् श्रुत्वैव मन्त्रीश्वरो मूछित:, शीतोपचारैर्लब्धसंज्ञ: स आत्मघाताय तत्परो बभूव, परं पश्चात्तापपरेण राज्ञा तत्सर्वं स्वरूपं निवेद्य क्षामयित्वा च बहुकथनपूर्वकं स मरणाद्रक्षितः, ततो द्वादशवर्षानन्तरं स मन्त्रीश्वरः स्वपत्न्यस्थीनि गृहीत्वा गंगायां क्षेपणार्थं गतः । ततः स स्नात्वा तान्यस्थीनि यावत्तन्नाम्ना गंगायां प्रक्षिपति तावत्तत्र वाणारसीनृपतिपुत्री सखीयुता स्नानार्थमागता, तस्याश्च पूर्वभवसम्बन्धिस्वनामादि श्रुत्वा तत्क्षणं जातिस्मरणज्ञानं समुत्पन्नं, तत्कालं सा मूर्छामासाद्य भूमौ पतिता । तदा व्याकुलाभि: सखीभिस्तद्वृत्तान्तो राज्ञे ज्ञापित:, राजापि तूर्णं तत्र समागतः, तदा सखीभिरुक्तं हे स्वामिन्ननेन वैदेशिकेन किमपि मन्त्रादिकं भणितं, तेन चासौ कुमारी भूमौ पतिता । इत: शीतोपचारैः सचेतनीभूता कुमारी जगौ, हे तातास्य वैदेशिकस्य यदि यूयं किमपि विरूपं करिष्यथ तदाहं प्राणत्यागं करिष्ये, तदाकर्ण्य विस्मितेन राजा पृष्टा सा कुमारी सर्वं निजपूर्वभववृत्तान्तं 282828282828282828282828 Jain Educa For Personal Private Use Only Mw.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124