Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 63
________________ श्रीरूपसेनचरित्रं 11 Jain Educati RERERERERERERERERERERERE परस्परं कथयामासुः, यदेतत्सर्वं समीचीनं जातं यद्राज्ञश्चतुर्दशशतमनुष्यवधपापं न लग्नं, अथ स रूपसेनकुमारस्तलारक्षेण वधभूमिं प्रति नीयमानः क्रमेण चतुष्पथे समागात् । तत्र केचिद् दृढप्रहारिवत्तस्य निन्दां कुर्वन्ति केचिच्च तस्योपरि दयां कुवन्ति केचिच्च वदन्ति, यथादीपे पतंगवज्जाले, मत्स्यवत्कर्दमे करी । पाशे मृगस्तथा चैष, संकटे पतितः कथम् ॥१२०॥ अपरे चैवं वदन्ति कर्मणा प्रेरितो गच्छेत्, स्वर्गं वा श्वभ्रमेव च । यतो जन्तुरनीशोऽय - मात्मनः सुखदुःखयोः ॥ १२१ ॥ कुमारस्तु पञ्चपरमेष्ठिध्यानपरोऽग्रे चलितः, अथैवं तलारक्षस्तं सर्वत्र भ्रामयित्वा सन्ध्यासमये शूलायामारोपयामास । ततः स तलारक्षो राज्ञः पार्श्वे समागत्य कथयामास, हे राजन् मया भवदादेश: कृतोऽस्ति । अथ सा कुमारशूलारोपणवार्ता तया मालिन्या ज्ञाता, तदा सा स्वमनस्यत्यन्तं खेदं कर्तुं लग्ना, हा दैव स सत्पुरुषो राज्ञा मारितः, इति विविधं खेदं कुर्वन्ती सा तस्य गुणान् मुहुर्मुहुः सस्मार, यतः कोकिला सहकारस्य, गुणं स्मरति नित्यशः । कमलस्य गुणं भृङ्गो, राजहंसश्च मानसम् ||१२२|| For Personal & Private Use Only DEREREREREREREREREDERERY श्रीरूपसेन चरित्रं 11 jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124