Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 61
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 इति विचिन्त्य स पापभीरू रूपसेनकुमार: स्वगृहे गत्वा तानि सिन्दूरखरण्टितानि वस्त्राणि च परिधाय सर्वेषु पौरेषु पश्यत्सु सत्सु नृपसभाद्वारे समागतः, प्रतिहारमुखेन राजानं च निवेदयामास यद्भवतां मुखकमलदर्शनार्थं कोऽपि वैदेशिक: समागतोऽस्तीति । ततो नृपादेशेन प्रतिहारेण प्रेषित: स राजसभायां प्राप्तो राजानं प्रणम्य योग्यस्थाने समुपाविशत् । अथ महातेजस्विनं तं रूपसेनकुमारं दृष्ट्वा सभ्या विचारयामासुः, यत्किमयं देवकुमारो वा विद्याधरो वा सहस्रकिरणो वा शीत-करोऽस्ति ? तावता तत्र स्थितया तया मुख्यया वेश्यया सिन्दूरारुणानि तस्य वस्त्रादीनि विलोक्य राज्ञे ज्ञापितं, हे स्वामिन्नेष एव पुरुष: कुमार्या आवासे गत्वा तया सहानाचारं सेवते । तत् श्रुत्वा विस्मितेन राज्ञा तस्यै पृष्टं भो वेश्ये त्वयैतत्कथं ज्ञातं ? ततस्तया तस्य सिन्दूरलिप्तवस्त्राद्यभिज्ञानं दर्शितं, अथ राज्ञा तद्विषये पृष्टो रूपसेनकुमार: प्राह हे स्वामिन् वेश्ययोक्तं सर्वमपि सत्यमस्ति, एतद्राजविरुद्धं कर्म मयैव कृतमस्ति, अतो ममैव दंड: कार्य:, अपरे चेमे सर्वेऽपि मोचनीया:, एतेषां केषामप्यत्र दोषो नास्ति, तद्वचनानि श्रुत्वा सर्वेऽपि सभालोका विस्मिता: सन्तश्चिन्तयामासुरहो तैले मक्षिकावदत्र कुत्र समापतित: ? अमुष्य KYYYYYYYRYYRYYY ॥ ४८ ॥ ॥ ४८ ॥ JainEduo For Persona P e Use

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124