Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
282828282828282828282824
तु परोपकारकरणावसरोऽस्ति, अस्य जीवितदानोपकारपुण्यं च महाफलाय भविष्यति, यत:
तीर्थस्नानैर्न सा शुद्धि-बहुदानैर्न तत्फलम् । तपोभिरुग्रैस्तन्नाप्य-मुपकाराद्यदाप्यते ॥१२६।।
तेन हे स्वामिंस्त्वं साहसं कृत्वा तत्र गच्छ । नूनं तव कार्यसिद्धिर्भविष्यति, एवं तया बहुभिः प्रकारैः कथितेऽपि तेनोक्तमहं तु सर्वथा तत्र नैव यास्यामि, यतो ममापि जीवनेच्छा वर्तते, एवं तन्निश्चयं ज्ञात्वा कृतज्ञा सा मालिन्युवाच हे स्वामिंस्त्वं तर्हि गृहे तिष्ठ । अहमेव तत्र यास्यामीत्युक्त्वा सा दण्डं गृहीत्वा तत्र गता । अथ शूलोपरिस्थ: स कुमारस्तया बोधितोऽपि न वदति स्म, तृषया शुष्कतालुकण्ठौष्टो मूर्छित इव तया स ज्ञात: ततस्तयैकवारं दण्डेन ताडितोऽसौ जृम्भां कृतवान्. पुनस्तयेतस्ततोऽवलोक्य द्वितीयवारं ताडितेन तेन नयने समुद्घाट्य तस्या: सन्मुखं विलोकितं, तदा हृष्टा मालिनी तं तृतीयवारं दण्डेन ताडयामास, तत्क्षणं स सावधानो भूत्वा मालिन्यै जोत्कारं कृतवान् । तयापि तस्याशीर्वादो दत्तः, कथितं च हे बान्धव ! तव कियदुःखं समुत्पन्नं ? कुमारः प्राह हे भगिनि ! मम तु निद्रागताभूत्, तेन मया किमपि दुःखं न ज्ञातमस्ति, त्वयायं ममोपरि महानुपकार: कृतोऽस्ति, ततस्तौ मालिनीकुमारौ कुशलेन स्वगृहं समागतौ ।
282828282828282828282828
॥
५२
॥
Jain Educatch
For Personal & Private Use Only
v.jainelibrary.org
Loading... Page Navigation 1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124