Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरुपसेन
श्रीरूपसेनचरित्रं
चरिखं
282828282828282828282828
स्वयं च क्षणमेकं तुंगगिरिसमीपे सहकारवने विश्रान्तः । ___ इतो मन्मथराज्ञा रूपसेनकुमारं नगरमध्येऽनालोक्य तस्य शुद्धये सर्वत्र परितः स्वसेवका मुक्ता:, तैरपि गहनवनादिषु विलोकितं, बहवः पथिका: पृष्टाः, परं तस्य क्वापि शुद्धिर्न लब्धा । ततस्ते पश्चान्निवृत्त्य भूपं कथयामासुः, हे स्वामिन् । कुमारस्य शुद्धिस्त्वस्माभिः कुत्रापि न प्राप्ता । तदा विषादपरेण राजा निमित्तज्ञा आहूता:, अथ सदसि समागतास्ते राज्ञा पृष्टा भो निमित्तज़ा ! रूपसेनकुमार: क्व गतोऽस्ति ? कदा च स मिलिष्यतीत्यादि सम्यग्निमित्तं विलोक्य यूयं कथयत । इति नृपेणोक्ते ते स्वस्वबुद्ध्यनुसारेण विमर्श कृत्वा किमपि न कथयन्ति । तदा राज्ञा पुन: पृष्टास्ते कथयामासुः, हे स्वामिंस्तत्सर्वं वृत्तं प्रात: कथयिष्याम: । ततो राज्ञा विसर्जितास्ते प्रभाते पुनरागत्य राजानं कथयामासुः, हे राजन् रूपसेनकुमारसम्बन्धिवृत्तान्तं कथयितुं वयं नेच्छामः, तेन भवद्भिर्न पृष्टव्यं, कथिते च भवतो महदुःखं भविष्यति, तत् श्रुत्वा राजा मूर्छितः, क्षणाच्च पुन: सावधानोऽभूत् । ततो राजा जैनाचार्यमाकार्य तद्विषये पृष्टवान्, तैश्च पद्मावतीदेवीसान्निध्याद्विलोक्य राज्ञोऽग्रे निवेदितं, हे राजस्तद्विषये मया पृष्ठया पद्मावतीदेव्येत्याख्यातमस्ति, यथा
282828282828282828282828
॥ १३
॥
For Person
Private Use Only
Loading... Page Navigation 1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124