Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
28282828282828282828282
मुक्ता: सन्ति, अत: प्रतोलीमार्गेणात्रागमनं प्राणिनां दुष्करमेवास्ति, तत् श्रुत्वा राजकुमारः प्राह हे कामिन्यहं तु देव इव विद्याबलेन सर्वत्रापि गच्छामि । अथ तया चिन्तितं नूनमेष सर्वकलावान् दृश्यते, ततो यथेष मे स्वामी स्यात्तदा तु मम पुण्यतरु: फलित एव । इति विचार्य तयोक्तं हे सत्पुरुषाथ त्वं मम पाणिग्रहणं कुरु ! कुमारेणोक्तं हे सुन्दरि ! त्वं तु विलासवती राजकुमार्यसि, अहं च वैदेशिकोऽस्मि, तेनावयोः संयोग: कथं घटते ? किंच यदि प्रतिपन्नं निर्वाहितं स्यात्तदैव कृत: स्नेहोऽपि सुखकरः, यत:
कज्जेण विणा नेहो, अत्यविहूणाण गोवं लोए । पडिवन्ने निव्वहणं, कुणंति जे ते जए विरला ॥१२॥ कनकवत्योक्तं हे स्वामिन्नतः परं तु मम त्वत्पदकमलमेव शरणम्, उक्तेन बहुना किं वा, किं कृतैः शपथैर्घनैः । वदामि सत्यमेवैत-त्यमेव मम मानसे ॥१३॥
अथेति तस्या निश्चयं ज्ञात्वा कुमारेणापि तदुक्तं स्वीकृतम् । अथ सा तत्र कलशचतुष्टयेन चतुरिकां विधाय दीपसाक्षिकं तस्य रूपसेनकुमारस्य पाणिग्रहणं चकार, ततस्तया सह भोगविलासं विधाय कृमार: पुनर्मालिन्या गृहे गत्वा सुप्तः, एवं स रूपसेनकुमार: सर्वदा प्रच्छन्नरीत्या तदावासे
828282828282828282828282
॥
३८
॥
॥
३८
॥
Jain Eucal
For Personal & Private Use Only
How.jainelibrary.org
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124