SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 मुक्ता: सन्ति, अत: प्रतोलीमार्गेणात्रागमनं प्राणिनां दुष्करमेवास्ति, तत् श्रुत्वा राजकुमारः प्राह हे कामिन्यहं तु देव इव विद्याबलेन सर्वत्रापि गच्छामि । अथ तया चिन्तितं नूनमेष सर्वकलावान् दृश्यते, ततो यथेष मे स्वामी स्यात्तदा तु मम पुण्यतरु: फलित एव । इति विचार्य तयोक्तं हे सत्पुरुषाथ त्वं मम पाणिग्रहणं कुरु ! कुमारेणोक्तं हे सुन्दरि ! त्वं तु विलासवती राजकुमार्यसि, अहं च वैदेशिकोऽस्मि, तेनावयोः संयोग: कथं घटते ? किंच यदि प्रतिपन्नं निर्वाहितं स्यात्तदैव कृत: स्नेहोऽपि सुखकरः, यत: कज्जेण विणा नेहो, अत्यविहूणाण गोवं लोए । पडिवन्ने निव्वहणं, कुणंति जे ते जए विरला ॥१२॥ कनकवत्योक्तं हे स्वामिन्नतः परं तु मम त्वत्पदकमलमेव शरणम्, उक्तेन बहुना किं वा, किं कृतैः शपथैर्घनैः । वदामि सत्यमेवैत-त्यमेव मम मानसे ॥१३॥ अथेति तस्या निश्चयं ज्ञात्वा कुमारेणापि तदुक्तं स्वीकृतम् । अथ सा तत्र कलशचतुष्टयेन चतुरिकां विधाय दीपसाक्षिकं तस्य रूपसेनकुमारस्य पाणिग्रहणं चकार, ततस्तया सह भोगविलासं विधाय कृमार: पुनर्मालिन्या गृहे गत्वा सुप्तः, एवं स रूपसेनकुमार: सर्वदा प्रच्छन्नरीत्या तदावासे 828282828282828282828282 ॥ ३८ ॥ ॥ ३८ ॥ Jain Eucal For Personal & Private Use Only How.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy