________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
8282828282828282828282828
कथमप्येकवारमपि चेत्तया सह मिलनं स्यात्तदापि मे भाग्योदयः, परं तत्सर्वं मे मनोवाञ्छितं प्राक्तनपुण्येनैव जिनधर्मप्रसादाच्च भविष्यति, यत:जिनधर्मं विना नृणां, न स्युर्वाञ्छितसिद्धयः । सूर्यं विना न कोऽपि स्या-द्राजीवानां विकासकः ॥१०॥
अथ सा कनकवती स्वमनसि चिन्तयति, नूनमस्य वैदेशिकस्य विद्यावत: कापि कला यदि भविष्यति, तदा स स्वयमेव कयापि बुद्ध्या केनाप्युपायेनात्र मम पार्श्वे समागमिष्यतीति चिन्तयन्ती सा चक्रवाकीव तमेव ध्यायन्ती तस्थौ, अथ रूपसेनकुमारस्तत्सकलमपि दिनमतिवाह्य सायं सज्जीभूय लोकप्रचाररहितायां रात्रौ पादुकाप्रयोगेणाकाशमार्गेण तस्या कनकवत्या मन्दिरे प्राप्त: । तदा देवकुमारसदृशं तमेव तत्रागतं विलोक्य राजकुमारी ससम्भ्रमं समुत्थिता, यत:
सम्भ्रमः स्नेहमाख्याति, देशमाख्याति भाषितम् । आचार: कुलमाख्याति, वपुराख्याति भोजनम् ॥११॥
अथ तस्य राजकुमारस्य दर्शनमात्रतस्तस्या मन: प्रफुल्लितम् । ततस्तया तस्य वरासनदानादिभिर्बहुमान-पुरस्सरं प्रतिपत्तिः कृता, ततस्तयोक्तं हे स्वामिन् कथमत्र भवतामागमनं जातं ? का बुद्धिर्भवता विरचिता ? यतोऽत्र मदावासरक्षणार्थं मदीयपित्रा सायुधा: सप्तशतप्राहरिका
8282828282828282828282828
॥ ३७
॥
Jain Educa
For Personal & Private Use Only
Paw.jainelibrary.org