________________
श्रीरूपसेन
श्रीरूपसेन
चरित्रं
चरित्रं
RURUKURUKURUKURUKURUKURUN
मम वर: स्यात्तदैव मे जन्म सफलम् । मम मनस्त्वनेनैवाद्य हृतमस्ति, अतोऽस्मिन् जन्मनि तु ममैष एव स्वामी भवत्, अन्यथा मम मरणमेव शरणं. अथ ममैनमभिलाषमहं कस्याग्रे कथयामि ? यत:
सो कोवि नत्थि सुजणो, जस्स कहिज्जति हिययदुरक्खाई।
हियए उप्पंति उक्कंठे, पुणोवि हियए विलिजंति ॥८६॥ ततः प्राग्भवस्नेहनिबन्धनेन कुमारस्य मानसेऽपि तथैवाभिलाषो जातः, यत:दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः । किं पुनस्ता: स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ॥८॥ अहोऽस्या दृग्चातुरी ! विदग्धवनितायाश्च, संगमेनापि यत्सुखम् । क्व तत्प्राकृतनारीणां, गाढालिंगनचुम्बनैः ॥८॥
अर्थतयोर्दूरस्थयोरपि रविराजीवयोरिव परस्परं विलोकयतोः कोऽपि नव्य: स्नेहः प्रादुर्बभूव, यत:-दूरस्थोऽपि न दूरस्थो, यो वै मनसि वर्तते । हृदयादपि निष्क्रान्तः, समीपस्थोऽपि दूरगः ॥८९।।
अथ कुमारो दध्यौ चेदस्या: कन्याया: पाणिग्रहणं मया सह स्यात्तदा मम पुण्योदय एव,
#888888888888888AXARXA
॥
३६
॥
JainEduce
For Personal Private Use Only