Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
श्रीरूपसेन
चरित्रं
282828282828282828282828
रूपसेनकुमारस्तत्र कियती वेलां स्थित्वा पुनर्मालिनीगृहे च समागत्य तानि सिन्दूरखटितवस्त्राणि त्यक्त्वा स्नानं कृत्वा नव्यवस्त्राणि च परिधाय व्यवहारिवेषेण चतुष्पथे गतो नानाविधान्याश्चर्याणि पश्यति स्म, पौरवार्ता च शृणोति स्म, अथ द्वितीयदिने कुमार्यावासे सा मुख्या वेश्या समागता सन्ती सिन्दूरमध्ये पुरुषपदानि विलोकयामास । तत: सा नगरमध्ये भ्रमन्ती सिन्दूराक्तपादस्य तस्य पुरुषस्य गवेषणं चकार, परं तया स क्वापि न लब्धः । कुमारस्तु प्रतिदिनं राजकुमार्या आवासे समागत्य विषयसुखं तया सह भुंक्त्वा तथैव करोति, एवं चैकोनत्रिंशद्दिनानि जातानि । ततो वेश्या अपि सर्वाः किंकर्तव्यमूढाः संजाता: सत्यश्चिन्तयामासुरहोऽस्माकमप्येतद्रिञ्छग्राहकपुरुषस्येव संजातम् ।
यथा राजगृहवासी कोऽपि पुमान् ग्रामान्तरं व्यवसायार्थं धनं गृहीत्वा मार्गे गच्छन्नासीत् । एवं तस्य वनमध्ये गच्छतो मार्गे एको रिञ्छो मिलित:, तं हन्तुं यावत्स रिञ्छस्तत्पृष्ठे धावितस्तदा तत्क्षणं तेन पुंसा स रिञ्छ: कर्णयोधृतः, अथ यथा यथा स रिञ्छस्तं हन्तुमिच्छति, तथा तथा स तस्य को बाढं गृहणाति, एवं च कुर्वतस्तस्य कटित: सा दीनारवंशिका त्रुटिता । तत:
128282828282828282828282
Jain Educat
For Personal & Private Use Only
Mw.jainelibrary.org
Loading... Page Navigation 1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124