Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 36
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282828282828 दीनारपञ्चशतदानपरा च कन्था, निर्जीववस्तुचिरजीवितदश्च दण्डः, पात्रं च लक्षजनभोजनदायकं हि, श्रीपादुके च परदेशगतौ समर्थे ॥६७॥ इति तेषां वस्तूनां प्रभावं श्रुत्वा कुमारेणोक्तं भो योगिनो यदि यूयं मदुक्तं करिष्यथ, तदाहं युष्माकं सर्वेषामपि तुल्यमेव समर्पयिष्यामि, केषामपि नाधिकं न च न्यूनं दास्यामि, तद्विषये च भवद्भिर्मद्वद्धिरपि विलोकनीया । तत् श्रुत्वा तैर्योगिभिरुक्तं हे कुमारास्माकं त्वत्कृतं प्रमाणमेव । अथ कमारेणोक्तं ययं सर्वे चतर्ष दिक्ष दुरं तिष्ठत, यस्यां दिशि यद्वस्त्वहं क्षिपामि तद्वस्तु तेन ग्राह्यं, परं यदाहं सम्यग्विभज्य तालिकात्रयं पातयामि तदैव भवद्भिरत्रागन्तव्यं, तत्समयावधि च दूरं वृक्षान्तरे पृष्टि दत्त्वा स्थेयं, मत्सन्मुखं न विलोकनीयं । एवमरित्वत्युक्त्वा ते दूरं गत्वा विचारयन्ति यत्सम्प्रति कुमारोऽयं विश्वस्तो जातोऽस्ति, अथावसरे चैनमग्निकुण्डे क्षिप्त्वा सुवर्णपुरुषं वयं निष्पादयिष्यामः, एतावतात्र कुमारेण ते पादुके स्वपादयोः परिहिते, दण्डश्च हस्ते धृतः, पात्रकन्थी च स्वपृष्टौ बद्धे । ततस्तेन पादुके प्रति प्रोक्तं भो पादुके ! युवां मां कनकपुरे प्रापयतं । तत्क्षणमेव स गगने समुत्पतितोऽनेकानि कौतुकानि विलोकयन् 888888888888888888 २३ ॥ 82828 For Person Private Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124