Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 43
________________ श्रीरूपसेनचरित्रं ॥ ३० ॥ Jain Educatio ERERERERERERERERERERERE सह कलहं कर्तुं प्रवृत्ता । तदा कुमारेणोक्तं हे भगिनि त्वं निर्हेतुकं विवादं कथं करोषि ? यतः - वैरवैश्वानरव्याधि-वादव्यसनलक्षणाः । महानर्थाय जायन्ते, वकाराः पञ्च वर्धिता: ।। ७५ ।। तेनाहं त्वया सह वादं न करिष्यामि, परं त्वं कथय तवाद्य किं संजातमस्ति ? एवंविधो निबिडस्नेहस्तव क्व गतः ? उक्तं च पतंगरंगवत्प्रीतिः, पामराणां क्षणं भवेत् । चोलमज्जिष्ठवद्येषां धन्यास्ते जगतीतले ॥७६॥ स्त्रीभिः सह ये स्नेहं कुर्वन्ति ते मूर्खा एव । इति कुमारवचनानि श्रुत्वा मालिनीं प्रत्यूचे, अरे मया मुग्धयाद्यावधि तव धूर्तत्वं न ज्ञातं, त्वत्तुल्येन धूर्तपुरुषेण सह ये स्नेहं कुर्वन्ति त एव मूर्खा:, यतः - अभ्रच्छाया तृणादग्निः, खले प्रीतिः स्थले जलम् । वेश्यारागः कुमित्रं च षडेते क्षुधितोपमाः ॥ ७७ ॥ तदा कुमारः प्राह, हे मालिनि त्वयाहं धूर्तः कथं ज्ञात: ? यतः - मूखं पद्मदलाकारं, वाचश्चन्दनशीतलाः । हृदयं कर्तरीतुल्यं, त्रिविधं धूर्तलक्षणम् ॥७७॥ मया त्वं कदा वञ्चिता, तदा मालिनी प्राह, भो धूर्त ! त्वं शृणु मयाद्य तव ग्रन्थिच्छोटयित्वा For Personal & Private Use Only INDEREREREREREREREDERERE श्रीरूपसेन चरित्रं "I .. jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124