Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 45
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 तत् श्रुत्वा विस्मितया तया प्रोक्तं तर्हि त्वं तत्प्रभावं दर्शय ! अथ कुमारेण मन्त्रोच्चारपूर्वकं सा कन्था यावद्विस्तृता तावत्तस्या मध्याद्दीनाराणां पञ्चशती तत्र निपतिता । तत: कुमारेण तस्यै मालिन्यै प्रोक्तं भो भगिन्यथैतद्धनं त्वं गृहाण ! यदियन्ति दिनान्यहं तव गृहे समाधिना स्थितोऽभूवम्, अथ विस्मितया मालिन्या तद्धनं गृहीतम् । इत उत्तममध्यमजनानामन्तरं विलोक्य सा प्रातिवेश्मिकी तं कुमारं कल्पवृक्षतुल्यं ज्ञात्वा प्राह भो सत्पुरुष ! त्वं मम गृहे समागच्छ, सुखेन च चिरकालं तिष्ठ, यदि बहूनि भाग्यानि भवेयुस्तदैव त्वादृशा अतिथयो गृहे समागच्छेयुः, तदा पश्चात्तापं प्राप्तया तया मालिन्या प्रोक्तमरेऽयं कुमारस्तु मद्गृहे एव स्थास्यति, मयैवायं वने गत्वा मद्गृहे समानीतोऽस्ति, कथं त्वं कलहकरणा) मद्गृहे समागतासि ? याहि याहि स्वगेहं ! एवं तयोरन्योन्यं वाद: समभूत्. तत: कुमारेणैते उभे अपि कलहकरणतो निवारिते । अथ कुमारो मालिनी प्रति जगाद हे मालिनि ! त्वया तु मह्यं कथितमस्ति, यद्भवता मद्गृहे न स्थातव्यं, तमुधुनानया प्रातिवेश्मिक्या सह त्वं कलहं कथं करोषि ? नूनमत्र धनमेव कारणमस्ति, यतो यदा वनवासे गच्छन्तौ रामलक्ष्मणौ वशिष्टं गुरुं 282828282828282828282828 ३२ ॥ ॥ ३२ ॥ For Personal Private Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124