Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
॥ ३५
Jain Educat
KERERERERERERERERERERERE
तस्या अर्पणार्थं सर्वदा तत्र यामि । अस्यावासस्य षष्ट्यधिकत्रिशतमितानि द्वाराणि सन्ति, चतुरशीतिगवाक्षाश्च वतन्ते, वर्षमध्ये प्रतिदिनं च सैकैकं वारकेण द्वारमुद्घाटयति, तेन द्वारेण च सा नगरकौतुकानि पश्यति, राज्ञ आदेशं विना च सा दृष्टिदोषभयाद्बहिर्न निस्सरति, तत् श्रुत्वा कुमारेण पृष्टं हे भगिनीदमात्मगृहसन्मुखं तस्य प्रासादस्य द्वारं कस्मिन् दिने उद्घाटिष्यते ? सावदत्तदहं सम्यग् न जानामि । अथैवं वार्तां कुर्वतोस्तयोः कनकवत्या तद्गृहसन्मुखं तदेव द्वारमुद्घाटितं, तदा कुमारोऽपि हृष्टः, यत उत्तमानां मनोरथास्तु चिन्तितमात्रा एव सिद्ध्यन्ति । यतः - रम्येषु वस्तुषु मनोहरतां गतेषु रे चित्त खेदमुपयासि मुधा किमत्र ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा, पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥८५॥ अथ शुभपुण्यकर्मयोगेन भवितव्यतया च तस्याः कुमार्या दृष्टिः कुमारोपरि पतिता, तेन कुमारस्यापि हर्षो जातः, अथ तां दृष्ट्वा कुमारेण चिन्तितमहोऽस्या रूपनिर्माणं ! अथ तयोर्नेत्रमिलनतः परस्परं स्नेहः समुत्पन्नः । अथ कनकवत्या मनसि चिन्तितं मत्पिता मदर्थं सर्वदा वरं गवेषयति, परं तादृशो योग्यो वरो न लभ्यते, परं दैवयोगेन चेदसौ महापुरुषो
For Personal & Private Use Only
EDERERERERERERERERERERES
श्रीरूपसेन
चरित्रं
।। ३५ ।।
jainelibrary.org
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124