________________
श्रीरूपसेनचरित्रं
॥ ३० ॥
Jain Educatio
ERERERERERERERERERERERE
सह कलहं कर्तुं प्रवृत्ता । तदा कुमारेणोक्तं हे भगिनि त्वं निर्हेतुकं विवादं कथं करोषि ? यतः - वैरवैश्वानरव्याधि-वादव्यसनलक्षणाः । महानर्थाय जायन्ते, वकाराः पञ्च वर्धिता: ।। ७५ ।। तेनाहं त्वया सह वादं न करिष्यामि, परं त्वं कथय तवाद्य किं संजातमस्ति ? एवंविधो निबिडस्नेहस्तव क्व गतः ? उक्तं च
पतंगरंगवत्प्रीतिः, पामराणां क्षणं भवेत् । चोलमज्जिष्ठवद्येषां धन्यास्ते जगतीतले ॥७६॥ स्त्रीभिः सह ये स्नेहं कुर्वन्ति ते मूर्खा एव ।
इति कुमारवचनानि श्रुत्वा मालिनीं प्रत्यूचे, अरे मया मुग्धयाद्यावधि तव धूर्तत्वं न ज्ञातं, त्वत्तुल्येन धूर्तपुरुषेण सह ये स्नेहं कुर्वन्ति त एव मूर्खा:, यतः -
अभ्रच्छाया तृणादग्निः, खले प्रीतिः स्थले जलम् । वेश्यारागः कुमित्रं च षडेते क्षुधितोपमाः ॥ ७७ ॥ तदा कुमारः प्राह, हे मालिनि त्वयाहं धूर्तः कथं ज्ञात: ? यतः -
मूखं पद्मदलाकारं, वाचश्चन्दनशीतलाः । हृदयं कर्तरीतुल्यं, त्रिविधं धूर्तलक्षणम् ॥७७॥ मया त्वं कदा वञ्चिता, तदा मालिनी प्राह, भो धूर्त ! त्वं शृणु मयाद्य तव ग्रन्थिच्छोटयित्वा
For Personal & Private Use Only
INDEREREREREREREREDERERE
श्रीरूपसेन
चरित्रं
"I
..
jainelibrary.org