SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828888888 स वृत्तान्त: कथितः, तदा स यक्षः प्राह हे देवि ! सुष्टु जातं यत्त्वमखण्डिता तस्माच्छुटिता, अहं तु तेन वणिजा बहु कदर्थितोऽस्मि, तवृत्तान्तं शृणु ! अनेन वणिजा प्रवहणसंकटे मह्यमेको महिष: प्रतिपन्नोऽभूत, आगते च क्षेमेण यानपात्रे स एकं महिषमानीय तद्गलरज्जु मद्गले बद्ध्ध्या युगपद्वाद्यानि वादयामास । तदा स त्रस्तो महिषो मामपि मूलादुत्पाट्य मयां घर्षयन् धावितुं लग्नः, ततस्त्रुटितरज्जुरहं पथि पतितो लोकैरुत्पाट्य मत्स्थाने स्थापितः, तद्घर्षणक्षतानि त्वद्यापि मां बाधयन्तीत्युक्त्वा तेन देव्या: स्वांगगतघर्षणक्षतानि दर्शितानि, तानि च दृष्ट्वा सा चामुण्डादेव्यपि विलक्षीभूताऽक्षतांगं स्वात्मानं धन्यं मन्यमाना मौनं विधाय स्थिता । अतोऽस्यापि धूर्तस्य मन:परिणामो मया न ज्ञायते । अथ यदा सोऽत्रागमिष्यति तदा तं गृहमध्ये प्रवेष्टुमपि न दास्यामीति विचिन्त्य तया कुमारसत्कानि तानि वस्तूनि रोषाद् गृहपश्चाद्भागस्थे वाटके प्रक्षिप्तानि । इतस्तस्या मालिन्या: पार्श्वे एका प्रतिवेश्मिकी महिला समागता, तस्याः पार्श्वे तया तस्य धूर्तस्य स्वरूपं प्रोक्तं, प्राय: स्त्रीणां हृदये वार्ता न तिष्ठति, इत: स रूपसेनकुमारो नगरकौतुकानि विलोक्य तस्या गृहे समागतः, तदा सा मालिनी तेन RSASASRSASRYASRSASRSASR ॥ २९ ॥ Inn Educa For Personal Private Use Only ebay.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy