________________
श्रीरूपसेनचरित्रं
॥
Jain Educat
CREDERERERERERERERERERY
विलोकिता, तदा तन्मध्याद्योगियोग्यवस्तूनि वीक्ष्य मया त्वत्स्वरूपं ज्ञातं यतो धूर्ता ईदृशा एव अतस्त्वं त्वन्निवासकृतेऽन्यत्स्थानं गवेषय, अतः प्रभृति त्वया मद्गृहे नागन्तव्यम् । तत् श्रुत्वा स्युः, कुमारोऽवददरे मालिनि नूनं त्वं मुग्धासि, कस्यापि दुर्जनस्य वचने लग्नासि, तेन चकल्पवृक्षं करीरोऽयं, ज्ञात्वेति मां विमुञ्चसि । राजहंसे स काकोऽयं, कुबुद्धिः कथमीदृशी ॥७८॥ भवतु, मम स्थानानि बहून्यपि सन्ति यतः -
अयं निजः परो वेति, गणना लघुचेतसाम् । उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥७९॥
ततः कुमारेण मधुरवचसा तस्यै कथितं हे भगिनि ! तर्हि मद्वस्तुग्रन्थि त्वं समर्पय ! तत् श्रुत्वा तयोक्तं रे धूर्त मया तु तानि कन्थापात्रादीनि वाटके प्रक्षिप्तानि । कुमारः प्राह हे मुग्धे ! कुतस्त्वया तानि मज्जीविततुल्यानि वस्तूनि वाटके क्षिप्तानि ? मया तव किमपराद्धं कृतमस्ति ? ततस्तया तानि वस्तूनि वाटकात्समानीय तस्मै समर्पितानि । अथ कुमारेणोक्तं भोभगिन्येषां कन्थादिवस्तूनां महिमानं त्वं पश्य ! त्वया तु रत्नान्येतानि कर्करधिया प्रक्षिप्तानि, कामकुम्भस्त्वया मृन्मयो घटो ज्ञातः, प्रवालं गुञ्जाधिया मुक्तं, परमेषां वस्तूनां महाप्रभावोऽस्ति,
For Personal & Private Use Only
KAKAKAREREDEREREREDER
श्रीरूपसेन
चरित्रं
॥ ३१ ॥
v.jainelibrary.org