Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 41
________________ श्रीरूपसेनचरित्रं •~• । Jain Educati GAGAGAGRERERERERERERERY विलसति स्म । अथैकदा कुमारे बहिर्गते तया मालिन्या सा कुमारसत्कवस्तुग्रन्थिच्छोटिता, तन्मध्ये च योगिजनयोग्यानि कन्थादिवस्तूनि दृष्ट्वा सा मनसि विषण्णा सती चिन्तयामास, नूनमेष कोsपि धूर्तो योगी संभाव्यते । व्यवहारिवेषेण च मद्गृहे तिष्ठति । नूनं तेन वञ्चनार्थमेव मे सुवर्णको दत्तोऽस्ति, एवं च मां विप्रतार्य स यदि मदीयबालकानपनेष्य हनिष्यति, तदाहं किं करिष्यामि ? मायाविनां हि सर्वथा विश्वासो न कार्यः । यतः त्रिदशा अपि वञ्च्यन्ते, दाम्भिकैः किं पुनर्नराः । देवी यक्षश्च वणिजा, लीलया वञ्चितावहो ॥ ७४ ॥ यथा देवपुरे कुलानन्दमदनकलिकाभिधौ दम्पती अपुत्रावास्तां, ताभ्यां पुत्रार्थं चामुण्डायै दीनारत्रिलक्षी मानिता, जाते पुत्रे च पूर्वप्रतिपन्नं लक्षलक्षमूल्यं पुष्पत्रयं घटयित्वा स्थाले च क्षिप्त्वा स चामुण्डाया मन्दिरे समागतः तेभ्य एकं चामुण्डाया भाले शेषं द्वयं च तत्करयोर्मुक्त्वा प्रणामं च विधाय पश्चाद्गच्छता तेनैकं स्वस्य कृते, द्वितीयं स्वपत्नीकृते, तृतीयं च स्वपुत्रकृते, एवं तत्पुष्पत्रयमपि तेन शेषापदे पश्चाद्गृहीतं, एवं च तत्पुष्पत्रयं पश्चाल्लात्वा स स्वगृहं ययौ तदा खिन्नया तया चामुण्डाया देव्यैकस्य यक्षस्य स्वमित्रस्याग्रे For Personal & Private Use Only REDEREREREREDERERE DERERE श्रीरूपसेन चरित्रं ॥ २८ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124