Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 39
________________ श्रीरूपसेन-1 चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 जातास्ति, तेन चायं कुमारो महापुण्यवान् दृश्यते, यत: धरान्तस्थं तरोर्मूल-मुच्छ्रयेणानुमीयते । अदृष्टोऽपि तथा प्राच्यो, धर्मो ज्ञायेत सम्पदा ॥७१॥ अथ येनानेन पुरुषेण मदीया वाटिका नवपल्लवा कृतास्ति तस्य भक्तिं कुर्वे । इति विचिन्त्य सा वाटिकातो मनोहरसुगन्धिपुष्पाणि गृहीत्वा तेषां च चतुःसरं हारं निर्माय जागरणानन्तरं कुमाराय प्राभृतीचकार । तदा कुमारेणाप्युचितदाने तस्यै सुवर्णटंक एको दत्त: । तं गृहीत्वा सा हृष्टा मालिनी कुमारं प्रति जगाद, भो सत्पुरुष ! मम गृहे पादाववधारय तत् श्रुत्वा कुमारेण चिन्तितं नूनमेतद्धनदानफलमेवास्ति । तत: सा मालिनी तं रूपसेनकुमारं सार्थे समादाय ततश्चलिता स्वगृहद्वारे तं संस्थाप्य स्वयं च गृहान्तरं गत्वा तं गृहमध्ये समानयनाय स्वस्वामिनं मालिकं प्रत्यपृच्छत् । तदा स मालिको लकुटं समादाय धावित्वा तां कथयामास, रे रण्डे ! यादृशांस्तादृशानज्ञातान् कथं त्वं गृहमध्ये समानयसि ? मालिन्या भणितं स्वामिन् त्वं कोपं मा करु ! एवंविधोऽतिथिस्तु भाग्येनैव लभ्यते, पुरुषाणां मध्येऽप्यन्तरं वर्तते, यत: वाजिवाहनलोहानां, काष्ठपाषाणवाससाम् । नारीपुरुषतोयाना-मन्तरं महदन्तरम् ॥७२॥ अस्यैव हि पुरुषस्य प्रभावेणास्माकं वाटिका नवपल्लवा जातास्ति, इति कथयित्वा तया 28282828282828282828282 Jain Educa For Personal & Private Use Only Tw.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124