________________
श्रीरूपसेन-1
चरित्रं
श्रीरूपसेन
चरित्रं
282828282828282828282828
जातास्ति, तेन चायं कुमारो महापुण्यवान् दृश्यते, यत:
धरान्तस्थं तरोर्मूल-मुच्छ्रयेणानुमीयते । अदृष्टोऽपि तथा प्राच्यो, धर्मो ज्ञायेत सम्पदा ॥७१॥
अथ येनानेन पुरुषेण मदीया वाटिका नवपल्लवा कृतास्ति तस्य भक्तिं कुर्वे । इति विचिन्त्य सा वाटिकातो मनोहरसुगन्धिपुष्पाणि गृहीत्वा तेषां च चतुःसरं हारं निर्माय जागरणानन्तरं कुमाराय प्राभृतीचकार । तदा कुमारेणाप्युचितदाने तस्यै सुवर्णटंक एको दत्त: । तं गृहीत्वा सा हृष्टा मालिनी कुमारं प्रति जगाद, भो सत्पुरुष ! मम गृहे पादाववधारय तत् श्रुत्वा कुमारेण चिन्तितं नूनमेतद्धनदानफलमेवास्ति । तत: सा मालिनी तं रूपसेनकुमारं सार्थे समादाय ततश्चलिता स्वगृहद्वारे तं संस्थाप्य स्वयं च गृहान्तरं गत्वा तं गृहमध्ये समानयनाय स्वस्वामिनं मालिकं प्रत्यपृच्छत् । तदा स मालिको लकुटं समादाय धावित्वा तां कथयामास, रे रण्डे ! यादृशांस्तादृशानज्ञातान् कथं त्वं गृहमध्ये समानयसि ? मालिन्या भणितं स्वामिन् त्वं कोपं मा करु ! एवंविधोऽतिथिस्तु भाग्येनैव लभ्यते, पुरुषाणां मध्येऽप्यन्तरं वर्तते, यत:
वाजिवाहनलोहानां, काष्ठपाषाणवाससाम् । नारीपुरुषतोयाना-मन्तरं महदन्तरम् ॥७२॥ अस्यैव हि पुरुषस्य प्रभावेणास्माकं वाटिका नवपल्लवा जातास्ति, इति कथयित्वा तया
28282828282828282828282
Jain Educa
For Personal & Private Use Only
Tw.jainelibrary.org