Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
॥
Jain Educati
EDERERERERERERERERERERY
कुमार ! चतुर्थकषायोदयेन [ लोभोदयेन ] । यतो मन्मथराज्ञः पुत्रस्य मया विवाहो जायमानः श्रुतोऽस्ति तेन तत्र दक्षिणार्थं गच्छामि । यतः
मोदका यत्र लभ्यते, न दूरे पंचयोजनी । वटका यत्र लभ्यन्ते, न दूरे दशयोजनी ॥ ४६ ॥ तत् श्रुत्वा कुमारेणोक्तं सत्यमेतत्तर्हि त्वं तत्र शीघ्रं गच्छ द्विजेन पृष्टं भो कुमारास्मिन्नवसरे गृहं विमुच्य त्वं क्व गच्छसि ? कुमारः प्राह परदेशदिदृक्षया । द्विजेनोक्तमत्र केनापि कारणेन भाव्यं कुमारः प्राह कारणं तु कर्मैव, यतः -
किं करोति न हि प्राज्ञः, प्रेर्यमाणश्च कर्मभिः । प्रोक्तैव हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥४७॥ तत् श्रुत्वा द्विजेनोक्तं नूनं त्वं गृहात्क्रुद्धः सन् गच्छसि अतस्त्वं पश्चाद्वलस्व ! प्राज्ञैर्जनैः क्रोधो न कार्यः, यतः -
सर्वोपतापकृत्क्रोधः, क्रोधो वैरस्य कारणम् । दुर्गतिदायकः क्रोधः क्रोधः शमसुखार्गला ॥ ४८ ॥ इति द्विजेोक्तेऽपि यदा कुमारः पश्चाद्वलितुं नैच्छत्तदा तेन पुनरुक्तं हे कुमार विदेशा विषमाः त्वं च सरलः सुकुमारोऽसि कुमारः प्राह धीराणां किं विषमं ? यतः -
सन्ति,
For Personal & Private Use Only
EDEREREREREREREREREREREI
श्रीरूपसेन
चरित्रं
..
॥ १६ ॥
v.jainelibrary.org
Loading... Page Navigation 1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124