Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 30
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं 2828282828282828282828288 कोऽतिभार: समर्थानां, किं दूरं व्यवसायिनां । को विदेश: सविद्यानां, कः परः प्रियवादिनां ॥४९॥ तेन भो द्विज ! त्वं कनकपुरनगरस्य प्राध्वरं मार्ग मे दर्शय । यदहं तत्र गन्तुमिच्छामि । विप्रः प्राह भो कुमार ! स मार्गस्त्वत्यन्तं विषमोऽस्ति, तत्र च भूरि भयं वर्तते, तेन त्वं तत्र मा गच्छ । कुमारेणोक्तं तस्मिन् मार्गे कस्य भयं वर्तते तन्मे कथय । तेनोक्तं तर्हि शृणु ? इतो दूरे मार्गे एवैको महान वटोऽस्ति, स वटवृक्षश्च शाखाप्रशाखापत्रपुष्पादिभिरलंकृतोऽस्ति, किंच तस्यैकैका शाखा योजनप्रमाणास्ति, चतुर्दिक्षु तासु चतसृषु शाखासु च विद्यासिद्धाश्चत्वारो योगिनो वसन्ति । तेषां चतुर्णां योगिनां दृष्टौ त्वया न गन्तव्यं, यतस्ते मनुष्याणामुपद्रवकारिण: सन्ति, तेन च त्वयान्यमार्गेणान्यस्मिन्नगरे गन्तव्यं, तत् श्रुत्वा कुमार: प्राह भो द्विज तस्मिन् मार्गे गमने मम चेतसि किञ्चिदपि भयं नास्ति, यतो मे तु पुण्यमेव शरणमस्ति, उक्तं च वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥५०॥ जिनैर्निरूपिते धर्मे न चलत्यत्र यन्मनः । शूरास्त एव तेषां च, रक्षां कुर्वन्ति देवताः ॥५१॥ 2828282828282828282828286 ॥ १७ ॥ For Person Private Use Only pmeibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124