SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं 2828282828282828282828288 कोऽतिभार: समर्थानां, किं दूरं व्यवसायिनां । को विदेश: सविद्यानां, कः परः प्रियवादिनां ॥४९॥ तेन भो द्विज ! त्वं कनकपुरनगरस्य प्राध्वरं मार्ग मे दर्शय । यदहं तत्र गन्तुमिच्छामि । विप्रः प्राह भो कुमार ! स मार्गस्त्वत्यन्तं विषमोऽस्ति, तत्र च भूरि भयं वर्तते, तेन त्वं तत्र मा गच्छ । कुमारेणोक्तं तस्मिन् मार्गे कस्य भयं वर्तते तन्मे कथय । तेनोक्तं तर्हि शृणु ? इतो दूरे मार्गे एवैको महान वटोऽस्ति, स वटवृक्षश्च शाखाप्रशाखापत्रपुष्पादिभिरलंकृतोऽस्ति, किंच तस्यैकैका शाखा योजनप्रमाणास्ति, चतुर्दिक्षु तासु चतसृषु शाखासु च विद्यासिद्धाश्चत्वारो योगिनो वसन्ति । तेषां चतुर्णां योगिनां दृष्टौ त्वया न गन्तव्यं, यतस्ते मनुष्याणामुपद्रवकारिण: सन्ति, तेन च त्वयान्यमार्गेणान्यस्मिन्नगरे गन्तव्यं, तत् श्रुत्वा कुमार: प्राह भो द्विज तस्मिन् मार्गे गमने मम चेतसि किञ्चिदपि भयं नास्ति, यतो मे तु पुण्यमेव शरणमस्ति, उक्तं च वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुराकृतानि ॥५०॥ जिनैर्निरूपिते धर्मे न चलत्यत्र यन्मनः । शूरास्त एव तेषां च, रक्षां कुर्वन्ति देवताः ॥५१॥ 2828282828282828282828286 ॥ १७ ॥ For Person Private Use Only pmeibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy