SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीरुपसेन श्रीरूपसेनचरित्रं चरिखं 282828282828282828282828 स्वयं च क्षणमेकं तुंगगिरिसमीपे सहकारवने विश्रान्तः । ___ इतो मन्मथराज्ञा रूपसेनकुमारं नगरमध्येऽनालोक्य तस्य शुद्धये सर्वत्र परितः स्वसेवका मुक्ता:, तैरपि गहनवनादिषु विलोकितं, बहवः पथिका: पृष्टाः, परं तस्य क्वापि शुद्धिर्न लब्धा । ततस्ते पश्चान्निवृत्त्य भूपं कथयामासुः, हे स्वामिन् । कुमारस्य शुद्धिस्त्वस्माभिः कुत्रापि न प्राप्ता । तदा विषादपरेण राजा निमित्तज्ञा आहूता:, अथ सदसि समागतास्ते राज्ञा पृष्टा भो निमित्तज़ा ! रूपसेनकुमार: क्व गतोऽस्ति ? कदा च स मिलिष्यतीत्यादि सम्यग्निमित्तं विलोक्य यूयं कथयत । इति नृपेणोक्ते ते स्वस्वबुद्ध्यनुसारेण विमर्श कृत्वा किमपि न कथयन्ति । तदा राज्ञा पुन: पृष्टास्ते कथयामासुः, हे स्वामिंस्तत्सर्वं वृत्तं प्रात: कथयिष्याम: । ततो राज्ञा विसर्जितास्ते प्रभाते पुनरागत्य राजानं कथयामासुः, हे राजन् रूपसेनकुमारसम्बन्धिवृत्तान्तं कथयितुं वयं नेच्छामः, तेन भवद्भिर्न पृष्टव्यं, कथिते च भवतो महदुःखं भविष्यति, तत् श्रुत्वा राजा मूर्छितः, क्षणाच्च पुन: सावधानोऽभूत् । ततो राजा जैनाचार्यमाकार्य तद्विषये पृष्टवान्, तैश्च पद्मावतीदेवीसान्निध्याद्विलोक्य राज्ञोऽग्रे निवेदितं, हे राजस्तद्विषये मया पृष्ठया पद्मावतीदेव्येत्याख्यातमस्ति, यथा 282828282828282828282828 ॥ १३ ॥ For Person Private Use Only
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy