SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 मन्मथराज्ञः पुत्रः, परदेशगतोऽत्र रूपसेनाख्यः । द्वादशवषैरेव हि, मिलिष्यति श्रीकलत्रयुतः ॥४०॥ एतद्विषये च सन्देहो नास्ति, यतो देवभाषितमन्यथा न भवति, तत् श्रुत्वा राज्ञो भृशं दुःखं संजातं, परिवारोऽपि सर्व: सशोकोऽभूत् । राजा सभायामपि नोपविशति, यतस्तेन गुणिना पुत्रेण विना सभा न शोभते, यत: एकेन वनवृक्षण, पुष्पितेन सुगन्धिना । वासितं तदनं सर्वं, सुपुत्रेण कुलं यथा ॥४१॥ एकेन राजहंसेन, या शोभा सरसो भवेत् । न सा बकसहस्रेण, सुपुत्रेण तथा कुलम् ॥४२॥ अहो तेनैव सुपुत्रेण मम कुलस्य ख्यातिर्जाताभूत् । अथ राजा पुनः पुत्रस्य कुशलागमनाय देवानां पूजोपहारधूपभोगादि मनुते । यत: आर्ता देवान्नमस्यन्ति, तपः कुर्वन्ति रोगिणः । निर्धना विनयं यान्ति, वृद्धाः स्युः शीलशालिनः ॥४३॥ पुन: स नृप: सर्वदा तद्विषये शास्त्रज्ञान् वैदेशिकांश्च पृच्छति, एवं स राजा रुपसेनकुमारं मनसा मनागपि न विस्मरति, यत: 282828282828282828282828 ॥ १४ ॥ Jain Educati For Personal Private Use Only Jaw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy