________________
श्रीरूपसेनचरित्रं
।। १२ ।।
Jain Educa
EREREDEREREREREREREDEREI
इति विचिन्त्य स रात्रौ गच्छन् प्रतोल्यां द्वारपालेन पृष्टः, भो कुमाराद्य रात्रौ त्वं क्व गच्छसि ? गमनकारणं च कथय । नृपादेशं विना त्वां गन्तुं न दास्यामि, यतः
आज्ञाभंगो नरेन्द्राणां वृत्तिच्छेदो द्विजन्मनाम् । पृथक् शय्या च नारीणा - मशस्त्रो वध उच्यते ॥ ३७ ॥ तत् श्रुत्वा कुमारेणैकः स्वर्णदीनारस्तस्मै दत्तः, तदा हृष्टेन द्वारपालेन स किमप्यनापृच्छ्य प्रतोल्या बहिष्कृतः, द्रव्येण सर्वः कोऽपि वशीभवति, अथ कुमारोऽपि पवनवेगाश्वारूढोऽग्रे चलितो बहुदूरं वनं प्राप्तः, तत्र च तेनैको जिनप्रासादो दृष्टः, तं च स त्रिः प्रदक्षिणीकृत्यांतः प्रविष्टः, तत्र च तेन सर्वविघ्नहरी सर्वसौख्यकरी च श्रीपार्श्वप्रभोर्मूर्तिर्दृष्टा । मुदितः सन् स तां प्रणम्य चैत्यवंदनं कर्तुं लग्नः
सुप्रभात: सुदिवस:, कल्याणं मेऽद्य मंगलम् । यद्वीतराग ! दृष्टोऽसि त्वं त्रैलोक्यदिवाकर ! ||३८|| ॐ नमः पार्श्वनाथाय, विश्वचिन्तामणीयते । ॐ धरणेन्द्रवैरोट्या - पद्मादेवीयुताय ते ॥ ३९॥ एवं श्रीगुर्वाम्नायपूर्वकं मन्त्रबीजयुतं श्रीपार्श्वनाथस्तवं कृत्वा रूपसेनस्तत: पुनरग्रे प्रस्थितः, एवं तेन षोडशप्रहरान् यावत्तुरंगारूढेन गमनं कृतं, ततोऽसौ तुरंगमं श्रान्तं विज्ञाय वने मुक्त्वा
For Personal & Private Use Only
PERERERERERERERERERERERE!
श्रीरूपसेन
चरित्रं
॥ १२ ॥
w.jainelibrary.org