SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 दिव्याभरणयुतं यान्तं राजा ददर्श, तं दृष्ट्वा नृपोऽपि तत्पृष्ठे धावित: । ततो यथा यथा नृपस्य नौस्तत्पृष्ठे समायाति तथा तथा स पुरुष: शीघ्रमग्रतो याति, तस्य पुरुषस्य च जलोपरि केवलं मस्तकमेव राजा विलोकयति । अथ राजा मनसि विस्मित: सन् विचारयामास यन्नूनमयं कोऽपि दिव्यानुभाव: संभाव्यते । अथ कियदूरं गत्वा तन्मस्तकं जलोपरि स्थिरं जातं, तदा राज्ञा द्रुतमेव तत्पश्चाद्गत्वा तन्मस्तके वेणिदंडं धृतं, यावच्च स तदुच्चैराकर्षति तावत्केवलं मस्तकमेव तद्धस्ते समागतं । ततो राजा ख्रिन्न: सन् यावत्पुनर्नदीमध्ये विलोकयति तावत्तथैव समस्तकं तमेव पुरुषं नदीप्रवाहमध्ये यान्तं पश्यति । तदा विस्मितेन राज्ञा चिन्तितं नूनमियं कापि दैवी शक्तिरस्ति । अथ राज्ञा तन्मस्तकं प्रति पृष्टं त्वं कोऽसि ? तेनोक्तमहं देवोऽस्मीत्युक्त्वा तेन पुनर्नृपः पृष्टस्त्वं कोऽसि ? नृपेणोक्तमहं राजास्मि, तदा शीर्षं प्राह यदि त्वं राजासि तर्हि विनाऽन्यायं चौरवद्वेणिदंडे त्वयाहं कस्माद्धृत: ? राजा तु सर्वेषां शरणं स्यात्, उक्तं च-दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । परैस्तु परिभूतानां, सर्वेषां पार्थिवो गतिः ॥३॥ पञ्चमो लोकपालोऽसि, कृपाल: पृथिवीपते । पराभवसि चेत्त्वं मा-मन्याय: कस्य कथ्यते ॥४॥ X2828282828282828282828 २ ॥ ॥ Jain Educati For Personal Private Use Only Www.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy