SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं 11 Jain Educa EREREREREREREREREREDEREI ॥ नमामि नित्यं गुरुरामचन्द्रम् ॥ ॥ नमामि वीरं गिरिसारधीरम् ॥ ॥ श्री गौतमस्वामिने नमो नमः ॥ विद्वद्वज्जनविभूषणपंण्डितप्रवरश्रीजिनसूरगणिवरविरचितम् ॥ श्रीरूपसेनचरित्रम् ॥ श्रीमन्तं विदुरं शान्तं । लक्ष्मीराज्यजयप्रदं । वीरं नत्वाद्भुतां पुण्य-कथां कांचिल्लिखाम्यहं ॥१॥ आरोग्यभाग्याभ्युदयप्रभुत्वं–सत्त्वं शरीरे च जने महत्त्वम् । तत्त्वं च चित्ते सदने च सम्पत्, संपद्यते पुण्यवशेन पुंसाम् ॥२॥ यथा श्रीमन्मथनरेन्द्रपुत्ररूपसेनस्य पुण्यं फलितं, तस्य कथा चेयं भरतक्षेत्रे मगधदेशे राज्यगृहाख्यं नगरमस्ति, तत्र यादववंशरत्नं श्रीमन्मथाभिधो राजा राज्यं करोति, तस्य च मदनावल्यभिधाना पट्टराज्यासीत्, राजा तु न्यायेन प्रजाः पालयति । अथान्यदा तत्र वर्षाकालः समायात:, तदा तत्र नगरसीम्नि शीतजलाभिधाना नदी जलपूरेण परिपूर्णा वहति स्म । अथ तस्मिन्नवसरे राजा तत्र क्रीडार्थं प्राप्तः । तत्र च तेनैका नौरानायिता । ततः स तां नावमुपविश्य तस्यां नद्यां क्रीडां कर्तुं प्रवृत्तः । तावता नदीमध्ये नदीपूरसंमुखमेकं पुरुषं For Personal & Private Use Only EDERERERERERERERERERERGI श्रीरूपसेन चरित्रं 11 w.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy