Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 17
________________ श्रीरूपसेनचरित्रं AEDURERERERERERERERERERE ततो राजा गुरुं प्रति पृच्छति हे भगवन् कः स देवः ? को हस्ती च ? यो मामत्र मुक्त्वा गतः, एवं यावत्स पृच्छति तावत्स देवोऽपि तत्रागतः, अथ गुरुभिरुक्तं हे राजन्नेष तव बान्धवोऽस्ति, पूर्वं श्राद्धधर्ममाराध्य स देवोऽभूत्, तत्र चावधिना त्वां स्वबान्धवं राज्यलोलुपं ज्ञात्वा त्वत्प्रतिबोधाय तेन हस्तिरूपं कृत्वा त्वमस्मत्पार्श्वे समानीतोऽसि । तत् श्रुत्वा प्रमुदितो राजा तं देवं प्रति जगौ हे बांधव ! अद्यतनं दिनं सफलं जातं यन्मया त्वं दृष्टः, धर्मश्च लब्धः, तदा देवेन तं प्रत्युक्तं हे बांधवातः परं त्वमेकमना जिनधर्ममाराधय । येन तव सर्वं भव्यं भविष्यति । तदा राज्ञोक्तं हे देव ! पुत्रं विना धर्मे ममैकचित्तता न भवति, यतो मे पुत्रा जाता अपि कर्मयोगतो मृताः, तत्संबन्धि मे मानसेऽतीवदुःखं वर्तते, यतः - बालरस मायमरणं, भज्जामरणं च जुब्बणारंभे । वुड्ढरस पुत्तमरणं, तिन्निवि गुरुआई दुखाई ॥९॥ पुत्रं विना हि धनराज्यादि सर्वमपि वृथा, यतः विना स्तम्भं यथा गेहं, यथा देहो विनात्मना । तरुर्विना यथा मूलं, विना पुत्रं कुलं तथा ॥|१०|| अपुत्रस्य गृहं शून्यं, दिशः शून्या अबान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्या दरिद्रता ॥ ११ ॥ For Personal & Private Use Only REDERERERERERERERERERERY श्रीरूपसेन चरित्रं ॥ ४ ॥ www.jainlibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124