________________
श्रीरूपसेनचरित्रं
AEDURERERERERERERERERERE
ततो राजा गुरुं प्रति पृच्छति हे भगवन् कः स देवः ? को हस्ती च ? यो मामत्र मुक्त्वा गतः, एवं यावत्स पृच्छति तावत्स देवोऽपि तत्रागतः, अथ गुरुभिरुक्तं हे राजन्नेष तव बान्धवोऽस्ति, पूर्वं श्राद्धधर्ममाराध्य स देवोऽभूत्, तत्र चावधिना त्वां स्वबान्धवं राज्यलोलुपं ज्ञात्वा त्वत्प्रतिबोधाय तेन हस्तिरूपं कृत्वा त्वमस्मत्पार्श्वे समानीतोऽसि । तत् श्रुत्वा प्रमुदितो राजा तं देवं प्रति जगौ हे बांधव ! अद्यतनं दिनं सफलं जातं यन्मया त्वं दृष्टः, धर्मश्च लब्धः, तदा देवेन तं प्रत्युक्तं हे बांधवातः परं त्वमेकमना जिनधर्ममाराधय । येन तव सर्वं भव्यं भविष्यति । तदा राज्ञोक्तं हे देव ! पुत्रं विना धर्मे ममैकचित्तता न भवति, यतो मे पुत्रा जाता अपि कर्मयोगतो मृताः, तत्संबन्धि मे मानसेऽतीवदुःखं वर्तते, यतः -
बालरस मायमरणं, भज्जामरणं च जुब्बणारंभे । वुड्ढरस पुत्तमरणं, तिन्निवि गुरुआई दुखाई ॥९॥
पुत्रं विना हि धनराज्यादि सर्वमपि वृथा, यतः
विना स्तम्भं यथा गेहं, यथा देहो विनात्मना । तरुर्विना यथा मूलं, विना पुत्रं कुलं तथा ॥|१०|| अपुत्रस्य गृहं शून्यं, दिशः शून्या अबान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्या दरिद्रता ॥ ११ ॥
For Personal & Private Use Only
REDERERERERERERERERERERY
श्रीरूपसेन
चरित्रं
॥ ४ ॥
www.jainlibrary.org