SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं ॥ Jain Educati KERERERERERED FRERERE जिहां बालक तिहां पोखणु, ज्यां गोरस त्यां भोग । मीठा बोला ठक्करा गामे वसे बहु लोक ||१२|| तत् श्रुत्वा देवेनोक्तं हे राजन्नथ धर्मप्रभावात्तव चिरायुषः पुत्रा भविष्यन्ति, नात्र संशयः, यतः - पियमहिलामुहकमलं, बालमुहं धूलिधूसरच्छायं । सामिमुहं सुपसन्नं, तिन्निवि पुन्नेहिं पार्वति ॥१३॥ तत् श्रुत्वा हृष्टो राजा गुरून् वन्दित्वा तस्यैव देवस्य सान्निध्येन स्वनगरवने प्राप्तः, अथ धर्मप्रतिपत्तिसन्तुष्टेन तेन देवेन तस्मै राज्ञे सर्वरोगहरं सुवर्णकच्चोलकमेकं दत्तं कथितं चात्र निहितेन पीतेन जलेन सर्वे रोगा यास्यन्तीत्युक्त्वा स देवः स्वस्थाने प्राप्तः । अथ राजानं पुनः कुशलेन स्वनगरे समागतं विलोक्य सर्वेऽपि लोका हर्षिताः, राज्ञापि लोकानामग्रे तद्देवस्वरूपं स्वयं स्वीकृतधर्मप्रतिपत्तिस्वरूपं च प्रोक्तं, तत् श्रुत्वा ते सर्वेऽपि लोका जैनधर्मे स्थिरा जाता: । यतः राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते, यथा राजा तथा प्रजाः || १४ || पट्टराज्यपि जैनधर्मं प्रत्यपद्यत यतः पतिकार्यरता नित्यं, भर्तुश्चित्तानुवर्तिनी । यस्येदृशी भवेद्भार्या, स्वर्गस्तस्येह विद्यते ॥ १५ ॥ For Personal & Private Use Only RERERERERERERERERERERERY श्रीरूपसेन चरित्रं ॥ ५ 11 v.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy