________________
श्रीरूपसेन-1
चरित्रं
श्रीरूपसेन
चरित्रं
0282828282828282828282828
स्वजने या च सस्नेहा, देवे गुरौ च सादरा । अतिथावागते हृष्टा, सा कुलस्त्री श्रुता जने ॥१६॥
अथ श्रीदेवपूजापञ्चपरमेष्ठिध्यानसुपात्रदानादिपुण्यकार्याणि कुर्वतोस्तयोः क्रमेण पुत्रयुग्मं जातं तदा तत्सुवर्णकच्चोलकनीरं तयोः पाययित्वा राज्ञा महोत्सव: कृतः, दानादि दत्तानि, तत: कुटुम्बिनां भोजनवस्त्रपात्रादिदानमानपूर्वं दत्त्वा राज्ञा तयो रूपसेनो रूपराजश्चेति नामनी दत्ते । क्रमेण वर्धमानौ तौ सर्वेषामपि वल्लभौ जातो, यत:
एव रम्य: पुत्रो यः, कुलमेव न केवलं । पितुः कीर्तिं च धर्मं च, गुणांश्चापि विवर्धयेत् ॥१७॥ सोरभ्याय भवन्त्येके, चन्दना इव नन्दनाः । मूलोच्छित्यै कुलस्यान्ये, वालका' इव बालकाः ॥१८॥ क्रमेण राज्ञा तौ पण्डितपार्श्वे चाध्यापितौ, यत:प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये नार्जितो धर्म-श्चतुर्थे किं करिष्यति ॥१९॥ किं कुलेन विशालेन, विद्याहीनस्य देहिनः । विद्यावान् पूज्यते लोके, 'निर्विद्यः परिभूयते ॥२०॥ एवं तौ द्वावपि पुत्रौ क्रमेण शास्त्रकलापारीणौ जातौ । तथापि तौ विद्याभ्यासं न मुंचत: स्म,
0282828282828282828282824
१. केशा: २. मूखः
Jain Educal
For Personal & Private Use Only
w.jainelibrary.org