SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 828282828282828282828282 यत:- संतोषरित्रषु कर्तव्यः, स्वदारे भोजने धने । त्रिषु चैव न कर्तव्यो, दाने चाध्ययने 'तपे ॥२१॥ क्रमेण यौवनं प्राप्तौ तौ विनयविवेकचातुर्यादिगुणैः सर्वत्र प्रसिद्धौ जातौ; यत:गुणेषु यत्नः क्रियतां, किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभि-गर्गावः क्षीरविवर्जिताः ॥२२॥ अथ राजा तयोः पाणिग्रहणार्थं सर्वत्र कुलगुणादिभिस्तदनुरूपा: कन्या विलोकयामास । ___ इतश्च मालवदेशे धारानगर्यां प्रतापसिंहाख्यो राजा राज्यं कुरुते स्म; तस्य बहवः पुत्रा: सन्ति । तेषामुपरि चैका पुत्री वर्तते । सा कन्या च सर्वशास्त्रकलादिषु कुशलास्ति, क्रमेण तां यौवनवतीं दृष्ट्वा राजा तस्या अनुरूपवरार्थं गवेषणां करोति स्म । यत: विभूतिर्विनयश्चापि, विद्या वित्तं वपुर्वयः । विज्ञानं यस्य सप्तैते, ववा योग्यो वरः स हि ॥२३॥ तथा च-सुकुले योजयेत्कन्यां, विद्यां पात्रे नियोजयेत् । व्यसने योजयेच्छत्रु-मिष्टं धर्मे नियोजयेत् ॥२४॥ अथैकदा तदर्थं राज्ञा पृष्टेन मंत्रिणोक्तं हे स्वामिन् ! मन्मथराजांगजौ गजाविव स्कंधोद्धरौ बालावपि बहुगुणौ श्रूयमाणौ स्तः, यत:१. अकारान्तशब्दोऽयम् । XAURRURERERERURURURLAVA Jain Educa For Personal & Private Use Only Jaw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy