Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्र
Jain Educat
GREREREREDERERERERERERE K
यदि रूपसेनकुमारस्यैतया कन्यया सह विवाहः करिष्यते तदा चतुरिकामध्ये चतुर्थे फेरके कुमारस्य मरणं भविष्यति, नात्र संदेह: । तत् श्रुत्वा राजा कृष्णमुखो बभूव, हर्षस्थाने तस्य विषादो जात: । ततो राज्ञा मन्त्रिणः पृष्टाः, भो मन्त्रिणोऽथ किं कर्तव्यं ? स्वयंवरेयं कन्या धारानगर्या राज्ञा रूपसेनं योग्यं विज्ञायात्र प्रेषितास्ति । यदि च सा पश्चात्प्रेष्यते तदावयोर्द्वयोरपि महत्त्वं कथं तिष्ठेत् ? अतोऽत्रार्थे कापि बुद्धिः कर्तव्या, यतः -
यस्य बुद्धिर्बलं तस्य, निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः, शशकेन निपातितः ॥ २७ ॥ तदा मंत्रिणा स्वबुद्ध्या विचार्य प्रोक्तं चेदनया कन्यया सह रूपराजकुमारस्य मेलापकः स्यात्तदा तयोरेव विवाहः कार्यः । तत् श्रुत्वा राज्ञा रूपराजकुमारस्य विषये पृष्टास्ते दैवज्ञा लग्नशुद्धिग्रहशुद्धिदिनशुद्ध्यादि ज्ञात्वा नृपस्य कथयामासुः, हे राजेन्द्र तया कन्यया सह रूपराजकुमारस्य समीचीनो मेलापकोऽस्ति, ततस्तत्स्वरूपं राज्ञा धारानृपमन्त्रिभ्यो ज्ञापितं, तैरपि च विचार्य रूपराजस्य कन्यादानं स्वीकृतं । यतो यद्भाव्यं तद्भवत्येव । यतः -
जड़ चलइ मन्दगिरि, अहवा चलन्ति सायरा सव्वे । ध्रुवचक्कं न य चलइ, न चलइ पुब्वकयं कम्मं ॥ २८ ॥
For Personal & Private Use Only
EREREREREREREREDERERERER
श्रीरूपसेन
चरित्रं
11
ww.jainlibrary.org
Loading... Page Navigation 1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124