SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्र Jain Educat GREREREREDERERERERERERE K यदि रूपसेनकुमारस्यैतया कन्यया सह विवाहः करिष्यते तदा चतुरिकामध्ये चतुर्थे फेरके कुमारस्य मरणं भविष्यति, नात्र संदेह: । तत् श्रुत्वा राजा कृष्णमुखो बभूव, हर्षस्थाने तस्य विषादो जात: । ततो राज्ञा मन्त्रिणः पृष्टाः, भो मन्त्रिणोऽथ किं कर्तव्यं ? स्वयंवरेयं कन्या धारानगर्या राज्ञा रूपसेनं योग्यं विज्ञायात्र प्रेषितास्ति । यदि च सा पश्चात्प्रेष्यते तदावयोर्द्वयोरपि महत्त्वं कथं तिष्ठेत् ? अतोऽत्रार्थे कापि बुद्धिः कर्तव्या, यतः - यस्य बुद्धिर्बलं तस्य, निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः, शशकेन निपातितः ॥ २७ ॥ तदा मंत्रिणा स्वबुद्ध्या विचार्य प्रोक्तं चेदनया कन्यया सह रूपराजकुमारस्य मेलापकः स्यात्तदा तयोरेव विवाहः कार्यः । तत् श्रुत्वा राज्ञा रूपराजकुमारस्य विषये पृष्टास्ते दैवज्ञा लग्नशुद्धिग्रहशुद्धिदिनशुद्ध्यादि ज्ञात्वा नृपस्य कथयामासुः, हे राजेन्द्र तया कन्यया सह रूपराजकुमारस्य समीचीनो मेलापकोऽस्ति, ततस्तत्स्वरूपं राज्ञा धारानृपमन्त्रिभ्यो ज्ञापितं, तैरपि च विचार्य रूपराजस्य कन्यादानं स्वीकृतं । यतो यद्भाव्यं तद्भवत्येव । यतः - जड़ चलइ मन्दगिरि, अहवा चलन्ति सायरा सव्वे । ध्रुवचक्कं न य चलइ, न चलइ पुब्वकयं कम्मं ॥ २८ ॥ For Personal & Private Use Only EREREREREREREREDERERERER श्रीरूपसेन चरित्रं 11 ww.jainlibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy