Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 36
________________ ५९२ पउमचरियं जह नय-विणयसमग्गो, गम्भीरो सोमदंसणसहावो । धम्मा-ऽधम्मविहण्णू, सव्वकलाणं च पारगओ ॥६४॥ अभवियजणवयणेणं, भीएण दुगुंछणाए अइरेणं । सामिय ! तुमे विमुक्का, एत्थ अरण्णे अकयपुण्णा ॥६५॥ जइ वि य तुमे महायस!, चत्ता हं पुव्वकम्मदोसेणं । तह वि य जणपरिवायं, मा सामि ! फुडं गणेज्जासुं ॥६६॥ रयणं पाणितलाओ, कह वि पमाएण सागरे पडियं । केण उवाएण पुणो, तं लब्भइ मग्गमाणेहिं ? ॥६७॥ पक्खिविऊण य कूवे, अमयफलं दारुणे तमन्धारे।जह पडिवज्जइ दुक्खं, पच्छायावाहओ बालो ॥६८॥ संसारमहादुक्खस्स, माणवा जेण सामि ! मुञ्चन्ति । तं दरिसणं महग्धं, मा मुञ्चहसे जिणुद्दिटुं ॥६९॥ जं जस्स अणुसरिच्छं, अहियं तं तस्स हवइ भणियव्वं । को सयलजणस्स इहं, करेइ मुहबन्धणं पुरिसो ? ॥७॥ मह वयणेण भणेज्जसु, सेणावइ ! राहवं पणमिऊणं । दाणेण भयसु बलियं, बन्धुजणं पीइजोएणं ॥७१॥ भयसु य सीलेण परं, मित्तं सब्भावनेहनिहसेणं । अतिहिं समागयं पुण, मुणिवसहं सव्वभावेणं ॥७२॥ खन्तीए जिणसु कोवं, माणं पुण मद्दवप्पओगेणं । मायं च अज्जवेणं, लोभं संतोसभावेणं ॥७३॥ बहुसत्थागमकुसलस्स तस्स नय-विणयसंपउत्तस्स । किं दिज्जउ उवएसो, नवरं पुण महिलिया चवला ॥७४॥ चिरसंवसमाणीए, बहुदुच्चरियं तु जं कयं सामि ! । तं खमसु मज्झ सव्वं, मउयसहावं मणं काउं॥७५॥ सामिय ! तुमे समाणं, मह होज्ज न होज्ज दरिसणं नूणं । जइ वि य अवराहस यं, तह वि य सव्वं खमेज्जासु ॥७६॥ यथा नय-विनयसमग्रो गम्भीर: सौम्यदर्शनस्वभावः । धर्माऽधर्मविज्ञः सर्वकलानां च पारगतः ॥६४|| अभविकजनवचनेन भीतेन जुगुप्सयाऽचिरेण । स्वामिन् ! त्वया विमुक्ताऽत्रारण्येऽकृतपुण्या ॥६५॥ यद्यपि च त्वया महायशः ! त्यक्ताहं पूर्वकर्मदोषेण । तथापि च जनपरिवादं मा स्वामिन् ! स्फुटं गणय ॥६६॥ रत्नं पाणितलात्कथमपि प्रमादेन सागरे पतितम् । केनोपायेन पुनस्तल्लभते मार्यमाणैः ॥६७॥ प्रक्षिप्य च कूपेऽमृतफलं दारुणे तमोऽन्धकारे । यथा प्रतिपद्यते दुःखं पश्चात्तापहतो बालः ॥६८॥ संसारमहादुःखस्य मानवा येन स्वामिन् ! मुञ्चन्ति । तद्दर्शनं महायं मा मुञ्च जिनोपदिष्टम् ॥६९॥ यद्यस्यानुसदृशमधिकं तं तस्य भवति भणितव्यम् । कः सकलजनस्येह करोति मुखबन्धनं पुरुषः ? ॥७०॥ मम वचनेन भण सेनापते ! राघवं प्रणम्य । दानेन भज बलिकं बन्धुजनं प्रीतियोगेन ॥७१॥ भज च शीलेन परं मित्रं स्वभावस्नेहनिकषेण । अतिथिं समागतं पुन र्मुनिवृषभं सर्वभावेन ॥७२॥ क्षान्त्या जय कोपं मानं पुन र्दिवप्रयोगेण । मायां चार्जवेन लोभं संतोषभावेण ॥७३॥ बहुशास्त्रागमकुशलस्य तस्य नय-विनयसंप्रयुक्तस्य । किं दीयत उपदेशो नवरं पुन महिला चपला ॥७४।। चिरसंवसमान्या बहुदुश्चरितं तु यत्कृतं स्वामिन् ! । तत्क्षम मम सर्वं मृदुस्वभावं मनः कृत्वा ।।७५॥ स्वामिन् ! त्वया समानं मम भवेन्न भवेद्दर्शनं नूनम् । यद्यपि चापराधशतं तथापि च सर्वं क्षमस्व ॥७६॥ १. अइरेग-प्रत्य० । २. एत्थारण्णे कह अउण्णा?-प्रत्य० । ३. ०सणं भूयं-प्रत्य० । ४. ०सयं तं चिय सव्वं-प्रत्य० । Jain Education Interational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166