Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan
View full book text
________________
६८०
पउमचरियं वरबउल-तिलय-चम्पय-असोय-पुन्नाय-नायमाईहिं । रेहन्ति पायवेहि, कुसुमफलोणमियसाहाहिं ॥१२॥ घणकुसुमगुच्छकेसरमयरन्दुद्दामसुरहिगन्धेणं । वासन्ति व्व दिसाओ, समन्तओ काणणवणाई ॥१३॥ एएसु चउनिकाया, देवा-कीलन्ति परियणसमग्गा । रइसागरोवगाढा, न सरन्ति निए वि हु विमाणे ॥१४॥ एयाण उववणाणं, ठियाई मज्झम्मि चेइयघराइं । तवणिज्जपिञ्जराइं, बहुविहसुरसङ्घनमियाई ॥१५॥ अवइण्णो पवणसुओ, तत्थ विमाणउ परियणसमग्गो । पायक्खिणं करेउं, पविसरइ तओ जिणागारं ॥१६॥ दट्टण सिद्धपडिमा, बहुलक्खणसंजुया दिणयराभा । पणमइ पहट्ठमणसो, कन्ताहिं समं पवणपुत्तो ॥१७॥ मण-नयणहारिणीओ, हणुवस्स पियाउ कणयकमलेहिं । पूएन्ति सिद्धपडिमा, अन्नेहिं वि दिव्वकुसुमेहिं ॥१८॥ सयमेव पवणपुत्तो, पडिमाओ कुङ्कमेण अच्चेउं । देइ वरसुरहिधूयं, बलिं च तिव्वाणुराएणं ॥१९॥ एत्तो वाणरमउली, अरहन्तं झाइऊण भावेणं । थुणइ थुइमङ्गलेहिं, विविहेहिं पावमहणेहिं ॥२०॥ थुणिऊण जहिच्छाए, विणिग्गओ जिणहराउ हणुवन्तो । पायक्खिणेइ मेरुं, वन्दन्तो सिद्धभवणाई ॥२१॥ भरहं एन्तस्स तओ, कमेण अत्थंगओ दियसनाहो । हणुवस्स सयलसेन्नं, ठियं च सुरदुन्दुहिगिरिम्म ॥२२॥ सो तत्थ बहुलपक्खे, गयणयलं मारुई पलोयन्तो । पेच्छइ घणञ्जणनिहं, तारासु समन्तओ छन्नं ॥२३॥ चिन्तेइ तो मणेणं, जह एयं चन्दविरहियं गयणं । न य सोहइ कुलगयणं, तहा विणा पुरिसचन्देणं ॥२४॥ वरबकुलतिलकचम्पकाशोकपुन्नागनागादिभिः । शोभन्ते पादपैः कुसुमफलावनतशाखाभिः ॥१२॥ घनकुसुमगुच्छकेसरमकरन्दोद्दामसुरभिगन्धेन । वासन्ति च दिशः समन्ततः काननवनानि ॥१३॥ एतेषु चतुर्निकाया देवा क्रीडन्ति परिजनसमग्राः । रतिसागरावगाढा न स्मरन्ति निजानपि हु विमानान् ॥१४॥ एतेषामुपवनानां स्थितानि मध्ये चैत्यगृहाणि । तपनीयपिञ्जराणि बहुविधसुरसङ्घनमितानि ॥१५॥ अवतीर्णः पवनसुतस्तत्र विमानात्परिजनसमग्रः । प्रदक्षिणां कृत्वा प्रविशति ततो जिनागारम् ।।१६।। दृष्ट्वा सिद्धप्रतिमां बहुलक्षणसंयुतां दिनकराभाम् । प्रणमति प्रहष्टमनाः कान्ताभिः समं पवनपुत्रः ॥१७॥ मनोनयनहारिण्यो हनुमतः प्रियाः कनककमलैः । पूजयन्ति सिद्धप्रतिमा अन्यैरपि दिव्यकुसुमैः ॥१८॥ स्वयमेव पवनपुत्रः प्रतिमाः कुङ्कुमेनार्चित्वा । ददाति वरसुरभिधूपं बलिं च तीव्रानुरागेण ॥१९॥ इतो वानरमौल्यर्हन्तं ध्यात्वा भावेन । स्तौति स्तुतिमङ्गलैः विविधैः पापमथनैः ॥२०॥ स्तुत्वा यथेच्छया विनिर्गतो जिनगृहाद्धनुमान् । प्रदक्षिणयति मेरुं वन्दमानः सिद्धभवनानि ॥२१॥ भरतमायातस्ततः क्रमेणास्तंगतो दिवसनाथः । हनुमतः सकलसैन्यं स्थितं च सुरदुन्दुभिगिरौ ॥२२॥ स तत्र बहुलपक्षे गगनतलं मारुतिः प्रलोकयन् । पश्यति घनाञ्जननिभं ताराभिः समन्ततश्च्छन्नम् ॥२३॥ चिन्तयति तदा मनसाऽथेतच्चन्द्रविरहितं गगनम् । न च शोभते कुलगगनं तथा विना पुरुषचन्द्रेण ॥२४॥
१. ण चच्चेउं-प्रत्य० । २. दिवस०-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166