Book Title: Paumchariyam Part 04
Author(s): Parshvaratnavijay
Publisher: Omkarsuri Aradhana Bhavan

View full book text
Previous | Next

Page 129
________________ ११०. लवण-ऽङ्कसतवोवणपवेसविहाणपव्वं अह तत्थ दोण्णि देवा, कुऊहली रयणचूल-मणिचूला । नेहपरिक्खणहेडं, समागया राम-केसीणं ॥१॥ रामं सोऊण मयं, केरिसियं कुणइ लक्खणो चेटु ? । रूसइ किं वा गच्छइ ?, किं वा परिभासए वयणं? ॥२॥ अहवा सोगाउलियं, पेच्छामो लक्खणस्स मुहयन्दं । ते एव कयालावा, साएयपुरि अह पविट्ठा ॥३॥ देवा रामस्स घरे, कुणन्ति मायाविणिम्मियं सदं । पउमो मओ मओ त्ति य, वरजुवईणं चिय विलावं ॥४॥ रामस्स मरणसइं, सोउं अक्कन्दियं च जुवईहिं लिच्छीहरो विसण्णो, जंपइ ताहे इमं वयणं ॥५॥ हा किं व इमं वत्तं, एव भणन्तस्स तस्स सयराहं । वायाए समं जीयं, विणिग्गयं लच्छिनिलयस्स ॥६॥ कञ्चणथम्भनिसन्नो, अणिमीलियलोयणो तहावत्थो । लक्खिज्जइ चक्कहरो, लेप्पमओ इव विणिम्मविओ ॥७॥ दट्ठण विगयजीयं, सोमित्तिं सुरवरा विसण्णमणा । निन्दन्ति य अप्पाणं, दोण्णि वि लज्जासमावन्ना ॥८॥ लक्खणमरणनिहेणं, एएणं एत्थ पुव्वविहिएणं । जायं परितावयरं, अम्हाण मणं तु अप्पाणं ॥९॥ पच्छातावुम्हविया, जीयं दाऊण तस्स असमत्था । निन्दन्ता अप्पाणं, सोहम्मं पत्थिया देवा ॥१०॥ असमिक्खियकारीणं, पुरिसाणं एत्थ पावहिययाणं । सयमेव कयं कम्मं, परितावयरं हवइ पच्छा ॥११॥ || ११०. लवणाङ्कुशतपोवनप्रवेशविधान पर्वम् || अथ तत्र द्वौ देवौ कुतूहली रत्नचूडमणिचूडौ । स्नेहपरीक्षणहेतुं समागतौ रामकेशीनौ ॥१॥ रामं श्रुत्वा मृतं कीदृशी करोति लक्ष्मण श्चेष्टा ? । रुष्यति किं वा गच्छति ? किंवा परिभाषते वचनम् ? ॥२॥ अथवा शोकाकुलितं पश्यावो लक्ष्मणस्य मुखचन्द्रम् । तावेवं कृतालापौ साकेतपुरिमथ प्रविष्टौ ॥३॥ देवौ रामस्य गृहे कुर्वतो मायाविनिर्मितं शब्दम् । पद्मो मृतो मृत इति च वरयुवतीनामेव विलापम् ॥४|| रामस्य मरणशब्दं श्रुत्वाऽऽक्रन्दितं च युवतिभिः । लक्ष्मीधरो विषण्णो जल्पति तदेदं वचनम् ।।५।। हा कि वेदं वृत्तमेवं भणतस्तस्य शीघ्रम् । वाचया समं जीवो विनिर्गतो लक्ष्मीनिलयस्य ॥६॥ कञ्चनस्तम्भनिसण्णोऽनिमिलितलोचनस्तथावस्थः । लक्ष्यते चक्रधरो लेप्यमय इव विनिर्मापितः ।।७।। दृष्ट्वा विगतजीवं सौमित्रिं सुरवरौ विषण्णमनसौ । निन्दत श्चात्मानं द्वावपि लज्जासमापन्नौ ॥८॥ लक्ष्मणमरणनिभेनानेनात्र पूर्वविहितेन । जातं परितापकरमस्माकं मनस्त्वात्मानम् ॥९॥ पश्चात्तपोष्मापितौ जीवं दातुं तस्यासमर्थौ । निन्दन्तावात्मानं सौधर्मं प्रस्थितौ देवौ ॥१०॥ असमीक्षितकारिणां पुरुषाणामत्र पापहृदयानाम् । स्वयमेव कृतं कर्म परितापकरं भवति पश्चात् ॥११॥ १. वत्तं, इमं भ०-मु० । २. ०मओ चेव निम्म०-मु०। Jain Education Interational For Personal & Private Use Only www.janeibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166