________________
१८२
अब उक्त बन्धभेदों का स्वरूप कहते हैं
पञ्चसंग्रह
'साइ अबंधा बंधई अणाइबंधो य जीवकम्माणं । धुवबंधो य अभव्वे बंध-विणासेण अद्भुवो होज ||२३३|| अप्पं बंधिय कम्मं बहुयं बंधे होइ भुययारो ।
विवरीओ अप्पयरो अवडिओ तेत्तिय त्ति बंधंतो ॥ २३४ ॥
तल्लक्षणमाह—योऽबन्धकर्मप्रकृतीबंध्नाति स सादिबन्धः । अबन्धपतितस्य कर्मणः पुनर्बन्धे सादिबन्धः स्यात् । यथा ज्ञानावरणपञ्चकस्योपशान्तकषायादवतरतः सूक्ष्मसाम्पराये बन्धो भवति १ । जीव-कर्मणोः अनादिबन्धः स्यात् । तथा उपरितनगुणस्थानं श्रेणिः, तत्रानारूढे अनादिबन्धः स्यात् २ | अभव्ये भभव्यसिद्धे ध्रुवबन्धो भवति, निःप्रतिपक्षाणां बन्धस्य तत्रानाद्यनन्तत्वात् । बन्ध - विनाशेन कर्मबन्धविध्वंसने नाध्रुवबन्धो भवेत् । अथवा भबन्धे सति अध्रुवबन्धो भवति । स अध्रुवबन्धो भव्ये भवति ४ । संख्याभेदेनैकस्मिन् जीवे युगपत्सम्भवत्प्रकृतिसमूहः स्थानमिति प्रकृतिस्थानबन्धः ५ अल्पं बध्वा बहुकं बनतः योऽल्पकर्मप्रकृतिकं बध्वा बहुकर्मप्रकृतिकं बध्नाति स भुजाकारो बन्धः स्यात् ६ । तद्विपरीतो यो बहुकर्म बनतोऽल्पकर्मप्रकृतिकं बध्नाति स अल्पतरो बन्धः स्यात् ७ । अल्पकर्मप्रकृतिकं बहुकर्म प्रकृतिकं वा बध्वा अनन्तरसमये तावदेव बनतोऽवस्थितो बन्धः ८ । आसामेव प्रकृतीनामयमेव गुणस्थानवर्त्ती जीवो बन्धको भवतीति स्वामित्वम् । तथा कर्म-बन्धविशेषस्य कर्तृ स्वामित्वं ज्ञातव्यम् । इति स्वामित्वेन सह नवविधबन्धस्य लक्षणं ज्ञेयम् ॥ २३३-२३४॥
विवक्षित कर्मप्रकृतिके अबन्ध अर्थात् बन्धविच्छेद हो जाने पर पुनः जो उसका बन्ध होता है, उसे सादिबन्ध कहते हैं। जीव और कर्मके अनादिकालीन बन्धको अनादिबन्ध कहते हैं । अभव्यके बन्धको ध्रुवबन्ध कहते हैं । एक वार बन्धका विनाश होकर पुनः होनेवाले बन्धको अध्रुवबन्ध कहते हैं । अथवा भव्यके बन्धको अध्रुवबन्ध कहते हैं । ( एक जीवमें एक समय बँधनेवाली प्रकृतियोंके समूहको प्रकृतिस्थानबन्ध कहते हैं ।) अल्प कर्म -बन्धको करके अधिक कर्मके बन्ध करनेको भुजाकारबन्ध कहते हैं। अधिक कर्म-बन्धको करके अल्प कर्मके बन्ध करनेको अल्पतर बन्ध कहते हैं । पहले समय में जितना कर्म-बन्ध किया है, दूसरे समय में उतना ही कर्मबन्ध होनेको अवस्थितबन्ध कहते हैं । ( इन विवक्षित कर्मप्रकृतियोंका इस गुणस्थानवर्ती जीव बन्ध करता है, इस प्रकार से कर्मबन्धके स्वामित्व-विशेष के निरूपणको स्वामित्वकी अपेक्षा बन्ध कहते हैं । ) ।।२३३-२३४॥
अब मूलप्रकृतियोंके सादिबन्ध आदिका निरूपण करते हैं
[ मूलगा०३७] साइ अणाइ य धुव अद्ध्रुवो य बंधो दु कम्मछकस्स |
तइए साइयसेसा अण्णाइ धुवसेसओ आऊं ॥ २३५॥
अथ मूलप्रकृतीनां सादि-बन्धादि कथ्यते - कर्मपट्कस्य ज्ञानावरण १ दर्शनावरण २ मोहनीय ३ नाम ४ गोत्रा ५ न्तरायाणां ६ षण्णां कर्मणां प्रत्येकं सादिबन्धः १ अनादिबन्धः २ ध्रुवबन्धः ३ अध्रुवबन्धः ४ चेति चतुर्धा बन्धो भवति । तृतीये वेदनीयकर्मणि सादितः शेषास्त्रयो बन्धा ज्ञेयाः । अनादिबन्धः १ ध्रुवबन्धः २ अध्रुवबन्ध ३ श्वेति त्रिविधबन्धो वेदनीयकर्मणो भवतीत्यर्थः, सातापेक्षया तस्य गुणप्रतिपन्नेषु उपशमश्रेण्याऽऽरोहणाऽवरोहणे च निरन्तरबन्धेन सादित्वाऽसम्भवात् । आयुष्ककर्मणोऽनादि-ध्रुवाभ्यां
Jain Education International
1. सं० पञ्चसं० ४, १०१-१०४ । २. ४, १०५ ।
१. शतक० ४० ।
For Private & Personal Use Only
www.jainelibrary.org