Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 772
________________ ७०५ शतकाख्यः चतुर्थः संग्रहः चतुर्विधेन भावेनैताः स्युः परिणताः सदा । शेषास्त्रिविधभावेन सप्तोत्तरशतप्रमाः ॥२६२॥ लतादार्वस्थिपाषाणैः समभावैरिमा मताः । शेषा दार्वस्थिपाषाणैः सप्तोत्तरशतप्रमाः ॥२६३॥ इति चतुर्विधभावाः १०७ । शुभप्रकृतिभावाः स्युगुंडखण्डसितामृतैः । अपरे निम्बकाक्षीरविषहालाहलैः समाः ॥२६४॥ अत्रापरे अशुभप्रकृतिभावाः । चतुर्थात्प्रत्ययात्तातं मिथ्यात्वादपि षोडश । पञ्चाग्रासंयतात्रिंशद्वध्यन्तेऽन्याः कषायतः ॥२५॥ सम्यक्त्वात्तीर्थकृत्त्वं चाहारकं संयमादिमे । प्रधानप्रत्यया यस्मानासां बन्धोऽस्ति तेविना ॥२६६।। इति प्रधानहेतुनिर्देशः । अपरे त्वेवमाहुः-- मिथ्यात्वेनाथ कोपादिचतुष्कैश्च त्रिभिः क्रमात् । षोडशानां तथा पञ्चविंशतेर्दशकस्य च ॥२६७॥ चतुर्णा योगतो बन्धः स्यात्सातस्य कषायतः। प्रकृतीनां तु शेषाणां तीर्थसाहारकैविना ।।२१८॥ अत्र मिथ्यादृष्टी बन्धव्यवच्छिन्न प्रकृतयः षोडश मिथ्यात्वोदयकारणाः? मिथ्यात्वोदयेन विना तासां बन्धानुपलब्धेः १६ । एवमनन्तानुबन्ध्युदयकारणाः सासने पञ्चविंशतिः २५ । अप्रत्याख्यानोदयकारणाः अविरते दश १०। प्रत्याख्यानोदयनिमित्ता देशनते चतस्रः ४ । योगकारणं सयोगे सातम् १। शेषाः स्वगुणसंस्थानेषु संज्वलनकषायोदयकारणाः । कुतः ? कषायोदयेन सह बन्धोपलब्धेः। ६४ । सम्यक्त्वं तीर्थंकृत्वस्याऽऽहारयुग्मस्य संयमः' बन्धहेतुरिति पूर्वमेवोक्तम् । शरीरपञ्चकं पन्न वर्णाः पञ्च रसास्तथा । संस्थानषट कमष्टौ च स्पर्शाः संहननानि पट् ॥२६॥ अङ्गोपाङ्गत्रिक गन्धी निर्माणोऽगुरुलध्वपि । प्रत्येकस्थिरयुग्मे च परघातः शुभाशुभे ॥३००। उपघातातपोद्योताः केषाञ्चिद्वन्धनान्यपि । संघातैः सह सन्त्येवं द्वाषष्टिः पुद्गलोदयाः ॥३०॥ एताः पुद्गलविपाका: वेदितव्याः । कुतः? एतासां विपाकेन शरीरादीनां निष्पत्तेदर्शनात् । एवं नाम्नि पुद्गलनिबन्धना द्वापञ्चाशत् ५२ । बन्धन-संघातैः सह द्वापष्टिः ६२ । । ज्ञानग्रोधमोहान्तरायोत्था वेद्यगोत्रेजा । गतयो जातयस्तीर्थ कृदुच्छासा नभोगेती ॥३०२॥ प्रससुस्वरपर्याप्तस्थूलादेययुगानि च । यशःसुभेगयुग्मे च जीवपाका इमा मताः ॥३०३॥ ७८। तत्र ज्ञान-दर्शनावरणे जीवविपाके। कुतः? जीव एव तयोर्विपाकस्योपलब्धः। मोहनीयमप्यात्मनि निबद्धमवगन्तव्यम् । कुतः ? सम्यक्त्व-चारित्रयोर्जीवगुणयोर्घातकस्वभावत्वात् । अन्तरायमपि जीव. निबद्ध वेदितव्यम् । कुतः? घातिकमत्वात्, दानादीनां च विघ्नकरणे तव्यापारोपलब्धेः । वेदनीयमप्यात्मनिवद्धम् । कुतः ? सातासातविपाकफलयोः सुख-दुखयोर्जीवे समुएलम्भात् । गोत्रमप्यात्मनिबद्धम् । कुतः? उच्च-नीचगोत्रयोर्जीवपर्यायत्वे दर्शनात् । गत्यादयोऽपि सप्तविंशतिर्नामप्रकृतयः भात्मनिबद्धाः। कुतः? एतासां विपाकस्य जीव एवोपलब्धेः । चतस्त्रश्चानुपूर्योऽपि क्षेत्रपाका मताः जिनैः । आयूंऽयपि हि चत्वारि भवपाकानि सन्ति हि ॥३०४॥ तत्र चतस्र आनुपूर्व्यः क्षेत्रनिबद्धाः । कुतः ? प्रतिनियतक्षेत्र एवैतासां फलोपलब्धेः । नरकायुर्नरकभवनिबद्धम् । कुतः? नरकभवधारणशक्तिदर्शनात् । शेषायूंष्यप्यात्मीयात्मीयभवेषु निबद्धानि, तेभ्यस्तेषां भवानामवस्थानोपलब्धेः। मीलिताः १४८। इत्यनुभागबन्धः समासः । १. योगात् । २. चतुर्णा प्रत्ययानां संयोगात् । ३. अवार्धश्लोकान वाक्यमस्तीति शेयम् । ८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872