Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 804
________________ सप्ततिकाख्यः पञ्चमः संग्रहः सूचमसाधारणोद्योताः षोडशेत्यनिवृत्तिके । स्युः संख्येयतमे शेषे क्षयभाजस्ततश्च सः ॥४११॥ अत्र तिर्यग्यादयः तिर्यग्गतिसहगताः ११ | श्वभ्रद्वयादयः श्वभ्रगतिसह गताः ५ । कषायान्माध्यमानष्टौ हन्त्यतोऽपि नपुंसकम् । स्त्रीवेदं च ततो हन्ति षट्कं हास्यादिकं ततः ॥४१२॥ पुंस्त्वे प्रक्षिप्य पुंस्त्वं च क्रोधे माने च तं पुनः । मायायां तं च तां लोभे लोभं सूक्ष्मो निहन्यतः ॥४१३ ॥ द्वे निद्रा प्रचले क्षीणः समये हन्त्युपान्तिमे । इक्चतुष्कमथो विघ्न- ज्ञानावृत्योर्दशान्तिमे ॥ ४१४ ॥ २|१४| देवगत्या नृगत्या च सहितो हन्त्ययोगकः । जीवेतरविपाकाह्वा नीचं चोपान्तिमे क्षणे ॥ ४१५॥ अत्र सर्वाः ७२ । जीवपाकाः स्वरद्वन्द्वमुच्छ्रासो द्वे नभोगती । वेद्यमेकमनादेयायशोऽपर्याप्त दुर्भगम् ॥४१६ ॥ स्युः पुद्गलोदयाः पञ्च देहास्तद्बन्धनानि च । तत्संघातास्ततः षट् संस्थानान्यशुभं शुभम् ॥ ४१७ ॥ अङ्गोपाङ्गत्रयं चाष्टौ स्पर्शाः संहननानि षट् । पन्च वर्णा रसाः पञ्च गन्धौ निर्मित्स्थिरद्वयम् ॥ ४१८॥ उपघातोऽन्यघातश्च प्रत्येकागुरुलध्वपि । देवगत्या सहैतासु देवद्वन्द्वं च नीचकम् ॥ ४१॥ एवं द्वासप्ततिः क्षीणाः समये स्यादुपान्तिमे । अन्ते स्वन्यतरद्वेद्यं नरायुर्नृ द्वयं त्रसम् ॥४२०॥ सुभगादेयपर्याप्तपञ्चाक्षोश्चयशांसि च । बादरं तीर्थंकृच्चे. त यस्यायोगः स वंद्यते ॥४२१॥ ७२ ।१३। प्राप्तोऽथ स जगत्प्रान्तं निर्विशत्यात्मसम्भवम् । रत्नत्रयफलं नित्यं सिद्धिसौख्यं निरञ्जनम् ॥४२२ ॥ दुरध्येयातिगम्भीरं महार्थाद् दृष्टिवादतः । कर्मणामनुसर्तव्याः सम्ति बन्धोदयाः स्फुटम् ॥४२३॥ म्वल्पागमतया किञ्चिद्यदपूर्णमिहोदितम् । कृत्वा तदतिसम्पूर्ण कथयन्तु बहुश्रुताः ॥४२४॥ संक्षिप्योक्तमिदं कर्मप्रकृतिप्राभृतं सदा । अभ्यसन् पुरुषो वेत्ति स्वरूपं बन्ध-मोक्षयोः ॥ ४२५ ॥ अष्टकर्मभिदः शीतीभूता नित्या निरञ्जनाः । लोकाप्रवासिनः सिद्धा जयन्त्वष्टगुणान्विताः ॥४२६॥ उक्तं च जीवस्थान- गुणस्थान-मार्गेणास्थान तस्ववित् । तपोनिर्जीर्णकर्मात्मा विमुक्तः सुखमृच्छति ॥ ४२७ ॥ श्री चित्रकूट वास्तव्य प्राग्वाटवणिजा कृते । श्रीपालसुतडड्ढेन स्फुटार्थः पञ्चसंग्रहे ॥ ४२८ ॥ इति सप्ततिः समाप्ता । Jain Education International १. एता जीवविपाकाः १० । ३ For Private & Personal Use Only ७३७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872