________________
सप्ततिकाख्यः पञ्चमः संग्रहः
सूचमसाधारणोद्योताः षोडशेत्यनिवृत्तिके । स्युः संख्येयतमे शेषे क्षयभाजस्ततश्च सः ॥४११॥ अत्र तिर्यग्यादयः तिर्यग्गतिसहगताः ११ | श्वभ्रद्वयादयः श्वभ्रगतिसह गताः ५ । कषायान्माध्यमानष्टौ हन्त्यतोऽपि नपुंसकम् । स्त्रीवेदं च ततो हन्ति षट्कं हास्यादिकं ततः ॥४१२॥ पुंस्त्वे प्रक्षिप्य पुंस्त्वं च क्रोधे माने च तं पुनः । मायायां तं च तां लोभे लोभं सूक्ष्मो निहन्यतः ॥४१३ ॥ द्वे निद्रा प्रचले क्षीणः समये हन्त्युपान्तिमे । इक्चतुष्कमथो विघ्न- ज्ञानावृत्योर्दशान्तिमे ॥ ४१४ ॥
२|१४|
देवगत्या नृगत्या च सहितो हन्त्ययोगकः । जीवेतरविपाकाह्वा नीचं चोपान्तिमे क्षणे ॥ ४१५॥ अत्र सर्वाः ७२ ।
जीवपाकाः स्वरद्वन्द्वमुच्छ्रासो द्वे नभोगती । वेद्यमेकमनादेयायशोऽपर्याप्त दुर्भगम् ॥४१६ ॥ स्युः पुद्गलोदयाः पञ्च देहास्तद्बन्धनानि च । तत्संघातास्ततः षट् संस्थानान्यशुभं शुभम् ॥ ४१७ ॥ अङ्गोपाङ्गत्रयं चाष्टौ स्पर्शाः संहननानि षट् । पन्च वर्णा रसाः पञ्च गन्धौ निर्मित्स्थिरद्वयम् ॥ ४१८॥ उपघातोऽन्यघातश्च प्रत्येकागुरुलध्वपि । देवगत्या सहैतासु देवद्वन्द्वं च नीचकम् ॥ ४१॥ एवं द्वासप्ततिः क्षीणाः समये स्यादुपान्तिमे । अन्ते स्वन्यतरद्वेद्यं नरायुर्नृ द्वयं त्रसम् ॥४२०॥ सुभगादेयपर्याप्तपञ्चाक्षोश्चयशांसि च । बादरं तीर्थंकृच्चे. त यस्यायोगः स वंद्यते ॥४२१॥
७२ ।१३।
प्राप्तोऽथ स जगत्प्रान्तं निर्विशत्यात्मसम्भवम् । रत्नत्रयफलं नित्यं सिद्धिसौख्यं निरञ्जनम् ॥४२२ ॥ दुरध्येयातिगम्भीरं महार्थाद् दृष्टिवादतः । कर्मणामनुसर्तव्याः सम्ति बन्धोदयाः स्फुटम् ॥४२३॥ म्वल्पागमतया किञ्चिद्यदपूर्णमिहोदितम् । कृत्वा तदतिसम्पूर्ण कथयन्तु बहुश्रुताः ॥४२४॥ संक्षिप्योक्तमिदं कर्मप्रकृतिप्राभृतं सदा । अभ्यसन् पुरुषो वेत्ति स्वरूपं बन्ध-मोक्षयोः ॥ ४२५ ॥ अष्टकर्मभिदः शीतीभूता नित्या निरञ्जनाः । लोकाप्रवासिनः सिद्धा जयन्त्वष्टगुणान्विताः ॥४२६॥ उक्तं च
जीवस्थान- गुणस्थान-मार्गेणास्थान तस्ववित् । तपोनिर्जीर्णकर्मात्मा विमुक्तः सुखमृच्छति ॥ ४२७ ॥ श्री चित्रकूट वास्तव्य प्राग्वाटवणिजा कृते । श्रीपालसुतडड्ढेन स्फुटार्थः पञ्चसंग्रहे ॥ ४२८ ॥
इति सप्ततिः समाप्ता ।
Jain Education International
१. एता जीवविपाकाः १० । ३
For Private & Personal Use Only
७३७
www.jainelibrary.org