Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
सप्ततिकाख्यः पञ्चमः संग्रहः
७१३
श्वभ्रतियंतृदेवानामेकं पञ्च त्रि पञ्च तु । क्रमेण गतियुक्तानि बन्धस्थानानि नामनि ॥५३॥
१५।३।५ अत्र श्वभ्रद्वयं हुण्डं निर्माणं दुर्भगास्थिरे । पञ्चेन्द्रियमनादेयं दुःस्वरं चायशोऽशुभम् ॥५४॥ असन्नभोगतिस्तेजः कार्मणं वैक्रियद्वयम् । वर्णाद्यगुरुलध्वादि सादिकचतुष्टयम् ॥५५॥ इत्यष्टाविंशतिस्थानमेकं मिथ्यात्वसंयुजाम् । श्वभ्रर्तिपूर्णपञ्चायुक्तं बध्नन्ति देहिनः ॥५६॥
स्थानं २८ । भङ्गः १ । अत्र नरकगत्या सह वृत्त्य भावादेकाक्ष-विकलाक्षजातयः संहननानि च न बध्यन्ते । दशभिनवभिः षड्भिः पञ्चभिविंशतिस्त्रिभिः । युक्ता स्थानानि पञ्चैव तिर्यग्गतियुतानि तु ॥५७॥
३०।२६।२६।२५।२३। तत्राद्या त्रिंशदुद्योतं तिर्यद्वितयकामणे । तेजः संहति-संस्थानपटकस्यैकतरद्वयम् ॥५८॥ नभोगतियुगस्यकतरमौदारिकद्वयम् । वर्णाद्यगुरुलध्वादि-व्रसादिकचतुष्टयम् ॥५६॥ स्थिरादिपडयुगेष्वेकतरं पञ्चाक्षनिर्मिती । पञ्चाक्षोद्योतपर्याप्ततिर्यग्गतियुतामिमाम् ॥६०॥ . मिथ्यादृष्टिः प्रबध्नाति बध्नात्येतां च सासनः। द्वितीयां त्रिंशतं किन्तु हुण्डासम्प्राप्तवर्जिताम् ॥६१॥
तत्र प्रथमत्रिंशति पटूसंस्थान-षट्संहनननभोगतियुग-स्थिरादिषड्युगलानि च ६।६।२।२।२।२।२।२ २।अन्योन्याभ्यस्तानि मङ्गाः ४६०८। द्वितीयविंशति सासनोऽन्तिमसंस्थान-संहनने बन्धं नागच्छतः, तद्योग्यतीवसंक्लेशाभावात् । अतः ५।५।२।२।२।२।२।२।२। अन्योन्याभ्यस्तानि भङ्गाः ३२००। एते पूर्वप्रविष्टाः पुनरुक्ता इति न गृह्यन्ते। तत्र त्रिंशन्तृतीयेयं तिर्यद्वितयकार्मणे । तेजश्चौदारिकद्वन्द्वं हुण्डा सम्प्राप्तदुर्भगम् ॥६२॥ व्रसाद्य गुरुलघ्वादि वर्णादिकचतुष्टयम् । तथा विकलजात्येकतरं दुःस्वरमेव च ॥६३॥ यशःस्थिरशुभद्वन्द्वत्रिकस्यैकतरत्रयम् । निर्माणं चाप्यनादेयमुद्योतासन्नभोगती ॥६॥ बध्नात्येतां च मिथ्याक पर्याप्तोद्योतसंयुताम् । विकलेन्द्रियसंयुक्तां तिर्यग्गतियुतामपि ॥६५॥
अत्र विकलेन्द्रियाणामेकं हुण्डसंस्थानमेव, तथैतेषां बन्धोदययोः दुःस्वरमेवेति तिस्रो जातयस्त्रीणि युगलान्यन्योन्याभ्यस्तानि ३।२।२।२। भङ्गाः २४ । तिस्रो हि त्रिंशतो यद्वदैकान्नत्रिंशतस्तथा । तिस्रो विशेषः सर्वासु यदुद्योतो न विद्यते ।।६६।।
एतासु पूर्वोक्तभङ्गाः ४६०८ । षड्विशतिरियं तत्र तिर्यद्वितयकार्मणे । तेज औदारिकैकाक्षे हुण्डं पर्याप्तबादरे ॥६७॥ निमिच्चागुरुलध्वादि-वर्णादिकचतुष्टयम् । शुभस्थिरयशोद्वन्दुष्वेकैकमथ दुभंगम् ॥६६॥ आतपोद्योतयोरेकं प्रत्येकं स्थावरं तथा । अनादेयं च बध्नाति मिथ्यादृष्टिरिमामपि ॥६६॥ सतियंग्गतिमेकाक्षपूर्णबादरसंयुताम् । तथैकतरसंयुक्तामातपोद्योतयोरपि ॥७॥
अत्रैकेन्द्रियेष्वङ्गोपाङ्गं नास्त्यष्टाङ्गाभावात् । संस्थानमप्येकमेव हुण्डम् । अतः आतपोद्योतस्थिरास्थिरशुभाशुभायशोयशसा युगानि ॥२॥१२ अन्योन्यगुणितानि भङ्गाः १६ । षड्विंशतिविनोद्योतातपाभ्यां पञ्चविंशतिः । तस्यैवैकतरोऽप्येताः सूचम-प्रत्येकयुग्मयोः ॥७१॥
अत्र सूचम-साधारणे भावनादीशानान्ता देवा न बध्नन्ति । अत्र च यशाकीति निरुध्य स्थिरास्थिरभङ्गो शुभाशुमभङ्गाभ्यां गुणितौ ४ । अयश कीर्ति निरुध्य बादरप्रत्येकस्थिरशुभयुगानि २।२।२।२ अन्योन्यगुणितान्ययशःकीर्तिभङ्गाः १६ । द्वयेऽपि २०।। पञ्चविंशतिरत्रान्या तिर्यद्वितयकार्मणे । पञ्चाक्ष-विकलाक्षकतरमौदारिकद्वयम् ॥७२॥ तेजोऽपर्याप्तनिर्माणे प्रत्येकागुरुलध्वपि । उपधातायशोहुण्डास्थिरासम्प्राप्तदुर्भगम् ॥७३॥ त्रसं वर्णादयः सूचममनादेयाशुभैस्त्विमाम् । सतिर्यग्गत्यपर्याप्तत्रसां बध्नाति वामदृक् ।।७४।।
अव परघातोच्छ्रासविहायोगतिस्वरनाम्नामपर्याप्तेन सह बन्धो नास्ति, विरोधादपर्याप्तकाले चैपामुदयाभावाच्च । अत्र चत्वारो जातिभङ्गाः ४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872