Book Title: Panchsangrah
Author(s): Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 781
________________ संस्कृत-पञ्चसंग्रह त्रयोविंशतिरेकाक्षं तिर्यग्द्वन्द्वं च कार्मणम् । तेजोऽशुभं तथौदार्य दुर्भगागुरुलध्वपि ॥७५॥ हुण्डं वर्णचतुष्कं चोपधातमयशोऽस्थिरम् । सूचमबादरयारेकमेकं साधारणान्ययोः ॥७६॥ स्थावरापूर्णनिर्माणानादेयानि च वामदृक् । सतिर्यग्गतिपर्याप्तकाक्षां बध्नात्यमूमपि ॥७७॥ . अत्र संहननबन्धो नास्ति, एकेन्द्रियेषु संहननस्योदयाभावात् । अत्र बादर-सुचमभङ्गयोः प्रत्येकसाधारण-भङ्गगुणनायां चत्वारो भङ्गाः ४ । ___ एवं तिर्यग्गतियुक्ताः सर्वभङ्गाः १३०८ । दशभिनवभिर्युक्ता विंशतिः पञ्चभिः क्रमात् । बन्धस्थानानि युक्तानि नृगत्यां त्रीणि नामनि ॥७८॥ ३०२६॥२५॥ त्रिंशदेषाऽत्र पञ्चाक्षं नृद्वयौदारिकद्वये । सुस्वरं सुभगादेयमाद्यसंस्थान-संहती ॥७॥ शुभस्थिरयशोयुग्मैकतराणि च सद्गतिः। वर्णाद्यगुरुलध्वादि-त्रसादिकचतुष्टयम् ॥८॥ तीर्थकृत्कार्मणं तेजो निर्मिद् बध्नात्यसंयतः । एतां नृमतिपञ्चाक्षपूर्णतीर्थकरैर्युताम् ॥८॥ ३० । अत्र दुर्भग-दुःस्वरानादेयानां तीर्थकरेण सम्यक्त्वेन च सह विरोधान्न बन्धः। सुभग-सुस्वरादेयानामेव बन्धस्तेन त्रीण्येव युगानि २।२२। अन्योन्यगुणिता भङ्गाः । हीनां तीर्थकृता त्रिंशदेकानत्रिंशदस्त्यमूम् । युक्तां मनुष्यगत्याद्यैर्बधनीतो मिश्र-निर्वतौ ॥२॥ २९ । अत्राष्टो मङ्गाः ८ वषयमाणद्वितीयैकान्नत्रिंशदपेक्षया पुनरुक्ता इति न गृहोताः । द्वितीयाऽप्येवमेकात्रिंशदेकतरैरियम् । युग्मोनां सुस्वरादेयसुभगानां त्रिभिर्युताः ॥३॥ एतां संहति-संस्थानषट कैकतरसंयुताम् । सन्नभोगतियुग्मैकतरां बध्नाति वामदृक् ॥४॥ अवेषां २।२२२।२।२।२।६।६ परस्परवधे भङ्गाः ४६०८। तृतीयापि द्वितीयेव बध्नात्येतां च सासनः । त्यक्त्वा हुण्डमसम्प्राप्तं तच्छेपैकतरान्विताम् ॥८५॥ अषां २१२२२।२।२।१५।५ अन्योन्यवधे भङ्गाः ३२०० । एते पूर्वप्रविष्टा इति न गृहीताः । स्यात्पञ्चविंशतिस्तन्न मनुष्यद्विक-कार्मणे । तेजोऽसम्प्राप्तहुण्डानि पञ्चासौदारिकद्विके ॥८६॥ प्रत्येकागुरुलचाहे स्थलापर्याप्तदर्भगम् । वसं वर्णचतुष्कं चानादेयमयशोऽस्थिरे ॥८॥ निर्माणं चाशुभं चोपघातोऽमूमादिमोऽर्जयेत् । मनुष्यगत्यपर्याप्तयुजं पञ्चाक्षसंयुताम् ॥८॥ अत्र संकेशेन बध्यमानापर्याप्तेन सह स्थिरादीनां विशुद्धिप्रकृतीनां बन्धो नास्ति, तेन भङ्गः । एवं मनुष्यगतौ सर्वभङ्गाः ४६१७ । एकत्रिंशदतस्त्रिंशन्नवाष्टाने च विंशती । चत्वार्यमरगरयामा निर्गत्येकं तु पञ्चमम् ॥९॥ ३१॥३०॥२६॥२८॥ तकत्रिंशदेषात्र देव द्वितय-कार्मणे । पञ्चाक्षमाद्यसंस्थानं तेजोवे क्रियिकद्वयम् ॥१०॥ वर्णाशगुरुलध्वादि-प्रसादिकचतुष्टयम् । सुभगं सुस्वरं शस्तनभोगतियशःशुभम् ॥११॥ स्थिराहारद्विकादेयनिर्माणं तीर्थकृत्तथा । बध्नाति चाप्रमत्तोऽमूमपूर्वकरणस्तथा ॥१२॥ देवगत्याऽथ पर्याप्तपञ्चाक्षाहारकद्वयः । युक्तं तीर्थकृता चैकत्रिंशस्थानमिदं भवेत् ॥१३॥ अम्र देवगत्या सह संहननानि न बध्यन्ते, देवेषु संहननानामुदयाभावात् । अत्र भङ्गः १ । एकत्रिंशद् भवेत् त्रिंशद्धीना तीर्थकरण सा । बध्यते चाप्रमत्तेन तथाऽपूर्वाह्वयेन च ॥१४॥ अवस्थिरादीनां बन्धो न भवति, विशुद्धया स हैतेषां बन्धविरोधात् । तेनात्र भङ्गः १ । आहारद्वितयेऽपास्त एकत्रिंशत्सती भवेत् । एकान्नत्रिंशदाद्यपा बध्यते सप्तमाष्टमः ॥१५॥ अत्रापि भङ्गः पुनरुक्तः ।। एकान्नत्रिंशदन्येवं परमेकं स्थिरे शुभे । यशस्यपि च बध्नन्ति निवृताद्यास्त्रयस्तु ताम् ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872