SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाख्यः पञ्चमः संग्रहः ७१३ श्वभ्रतियंतृदेवानामेकं पञ्च त्रि पञ्च तु । क्रमेण गतियुक्तानि बन्धस्थानानि नामनि ॥५३॥ १५।३।५ अत्र श्वभ्रद्वयं हुण्डं निर्माणं दुर्भगास्थिरे । पञ्चेन्द्रियमनादेयं दुःस्वरं चायशोऽशुभम् ॥५४॥ असन्नभोगतिस्तेजः कार्मणं वैक्रियद्वयम् । वर्णाद्यगुरुलध्वादि सादिकचतुष्टयम् ॥५५॥ इत्यष्टाविंशतिस्थानमेकं मिथ्यात्वसंयुजाम् । श्वभ्रर्तिपूर्णपञ्चायुक्तं बध्नन्ति देहिनः ॥५६॥ स्थानं २८ । भङ्गः १ । अत्र नरकगत्या सह वृत्त्य भावादेकाक्ष-विकलाक्षजातयः संहननानि च न बध्यन्ते । दशभिनवभिः षड्भिः पञ्चभिविंशतिस्त्रिभिः । युक्ता स्थानानि पञ्चैव तिर्यग्गतियुतानि तु ॥५७॥ ३०।२६।२६।२५।२३। तत्राद्या त्रिंशदुद्योतं तिर्यद्वितयकामणे । तेजः संहति-संस्थानपटकस्यैकतरद्वयम् ॥५८॥ नभोगतियुगस्यकतरमौदारिकद्वयम् । वर्णाद्यगुरुलध्वादि-व्रसादिकचतुष्टयम् ॥५६॥ स्थिरादिपडयुगेष्वेकतरं पञ्चाक्षनिर्मिती । पञ्चाक्षोद्योतपर्याप्ततिर्यग्गतियुतामिमाम् ॥६०॥ . मिथ्यादृष्टिः प्रबध्नाति बध्नात्येतां च सासनः। द्वितीयां त्रिंशतं किन्तु हुण्डासम्प्राप्तवर्जिताम् ॥६१॥ तत्र प्रथमत्रिंशति पटूसंस्थान-षट्संहनननभोगतियुग-स्थिरादिषड्युगलानि च ६।६।२।२।२।२।२।२ २।अन्योन्याभ्यस्तानि मङ्गाः ४६०८। द्वितीयविंशति सासनोऽन्तिमसंस्थान-संहनने बन्धं नागच्छतः, तद्योग्यतीवसंक्लेशाभावात् । अतः ५।५।२।२।२।२।२।२।२। अन्योन्याभ्यस्तानि भङ्गाः ३२००। एते पूर्वप्रविष्टाः पुनरुक्ता इति न गृह्यन्ते। तत्र त्रिंशन्तृतीयेयं तिर्यद्वितयकार्मणे । तेजश्चौदारिकद्वन्द्वं हुण्डा सम्प्राप्तदुर्भगम् ॥६२॥ व्रसाद्य गुरुलघ्वादि वर्णादिकचतुष्टयम् । तथा विकलजात्येकतरं दुःस्वरमेव च ॥६३॥ यशःस्थिरशुभद्वन्द्वत्रिकस्यैकतरत्रयम् । निर्माणं चाप्यनादेयमुद्योतासन्नभोगती ॥६॥ बध्नात्येतां च मिथ्याक पर्याप्तोद्योतसंयुताम् । विकलेन्द्रियसंयुक्तां तिर्यग्गतियुतामपि ॥६५॥ अत्र विकलेन्द्रियाणामेकं हुण्डसंस्थानमेव, तथैतेषां बन्धोदययोः दुःस्वरमेवेति तिस्रो जातयस्त्रीणि युगलान्यन्योन्याभ्यस्तानि ३।२।२।२। भङ्गाः २४ । तिस्रो हि त्रिंशतो यद्वदैकान्नत्रिंशतस्तथा । तिस्रो विशेषः सर्वासु यदुद्योतो न विद्यते ।।६६।। एतासु पूर्वोक्तभङ्गाः ४६०८ । षड्विशतिरियं तत्र तिर्यद्वितयकार्मणे । तेज औदारिकैकाक्षे हुण्डं पर्याप्तबादरे ॥६७॥ निमिच्चागुरुलध्वादि-वर्णादिकचतुष्टयम् । शुभस्थिरयशोद्वन्दुष्वेकैकमथ दुभंगम् ॥६६॥ आतपोद्योतयोरेकं प्रत्येकं स्थावरं तथा । अनादेयं च बध्नाति मिथ्यादृष्टिरिमामपि ॥६६॥ सतियंग्गतिमेकाक्षपूर्णबादरसंयुताम् । तथैकतरसंयुक्तामातपोद्योतयोरपि ॥७॥ अत्रैकेन्द्रियेष्वङ्गोपाङ्गं नास्त्यष्टाङ्गाभावात् । संस्थानमप्येकमेव हुण्डम् । अतः आतपोद्योतस्थिरास्थिरशुभाशुभायशोयशसा युगानि ॥२॥१२ अन्योन्यगुणितानि भङ्गाः १६ । षड्विंशतिविनोद्योतातपाभ्यां पञ्चविंशतिः । तस्यैवैकतरोऽप्येताः सूचम-प्रत्येकयुग्मयोः ॥७१॥ अत्र सूचम-साधारणे भावनादीशानान्ता देवा न बध्नन्ति । अत्र च यशाकीति निरुध्य स्थिरास्थिरभङ्गो शुभाशुमभङ्गाभ्यां गुणितौ ४ । अयश कीर्ति निरुध्य बादरप्रत्येकस्थिरशुभयुगानि २।२।२।२ अन्योन्यगुणितान्ययशःकीर्तिभङ्गाः १६ । द्वयेऽपि २०।। पञ्चविंशतिरत्रान्या तिर्यद्वितयकार्मणे । पञ्चाक्ष-विकलाक्षकतरमौदारिकद्वयम् ॥७२॥ तेजोऽपर्याप्तनिर्माणे प्रत्येकागुरुलध्वपि । उपधातायशोहुण्डास्थिरासम्प्राप्तदुर्भगम् ॥७३॥ त्रसं वर्णादयः सूचममनादेयाशुभैस्त्विमाम् । सतिर्यग्गत्यपर्याप्तत्रसां बध्नाति वामदृक् ।।७४।। अव परघातोच्छ्रासविहायोगतिस्वरनाम्नामपर्याप्तेन सह बन्धो नास्ति, विरोधादपर्याप्तकाले चैपामुदयाभावाच्च । अत्र चत्वारो जातिभङ्गाः ४ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy